SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 'एस'ति । एषः 'समुत्कर्षयितव्यः' आचार्यपदे स्थापनीय इत्याचार्यस्यैव वचने दोषगुणौ ज्ञात्वा स्थविराणां भजना च समुत्कर्षणे श्रूयते । तथा च स्थविरानुमतिरेव दिग्दाने प्रधानं कारणमिति सिद्धम् । अत्र चेदं सूत्रं व्यवहारचतुर्थीदेश के - "आयरियउवज्झाए गिलाएमाणे अण्णयरं वइज्जा - अज्जो ! मए णं कालगयंसि समाणंसि अयं समुक्कसियबे, से य समुकसणारिहे समुक्कसि अबे, से य णो समुक्कसणारिहे णो समुक्कसिअबे, अस्थि या इत्थ केइ अण्णे समुकसणारिहे से समुक्कसि अधे, णत्थि या इत्थ केइ अण्णे समुक्कसणारिहे से चैव समुक्कसिअधे । तंसि च णं समुकटुंसि परो वइज्जा - दुस्समुक्कट्ठे ते अज्जो ! णिक्खिवाहि, तस्स णं णिक्खिवमाणस्स वा अणिक्खिवमाणस्स वा नत्थि केइ छेए वा परिहारे वा, जे तं साहम्मिया अहाकप्पेणं ण अन्भुट्टेति तेसिं तप्पत्तिए छेए वा परिहारे वा ।" अस्यार्थः- आचार्य उपाध्यायो वा धातुक्षोभादिना ग्लायन्नन्यतरमुपाध्यायप्रवर्त्तिगणावच्छेदक भिक्षूणामन्यतमं पूर्व कुतश्चिद्धेतोरसमुत्कर्षितवान् सापेक्षः सन् वदेत्-आर्य ! मयि कालगते सत्ययं 'समुत्कर्षयितव्यः' आचार्यपदे स्थापनीयः । स च परीक्षया समुत्कर्षणार्हो भ वति ततः समुत्कर्षयितव्यः । अथ यदि गारवेच्छाऽसमाधिमरण भीत्युत्पादन निमित्तकगणदानानुमतिकत्वभिन्न देशीयत्वपरुषभाषणादिभिर्हेतुभिः प्रागनुमतोऽपि गुरोर्न समुत्कर्षयितव्य इति ज्ञातः स न समुत्कर्षयितव्यः । यश्च पूर्वं समीहितः सत्यपि मधुरत्वेऽसङ्ग्रहशीलो वाचकत्वनिष्पादकत्वोभयगुणविकलश्च सोऽपि न स्थापयितव्यः । यदि चाचार्याणां सर्वेऽपि शिष्या अनिर्माता इति प्रातीच्छिकस्तैरन्तसमये स्थाप्यते, मम शिष्ये निर्मापिते त्वया गणधरणपदं निक्षेप्तव्यमित्यभ्युपगमकारणपूर्वकम् । यो वा निर्मातः स्वशिष्योऽनिर्माते बहुभागे शिष्यान्तरे तत्र निर्मापिते उक्ताभ्युपगमकारणपूर्वकं स्था Jain Education International For Private & Personal Use Only: % www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy