________________
तीति ॥ ६९ ॥ तदेवं द्रव्यतो भावतश्चापरिच्छदे गच्छानुज्ञा न युक्तेति सूत्रसम्मत्या भावितम् । अथ द्रव्यभावपरिच्छदमेव दर्शयति-
द्रव्य भावप रिच्छद्युक्त
स्य गच्छानु
दव्वे परिच्छओ खलु, सच्चित्ताई णिउत्तवावारो। दंसणनाणचरित्ते, तवे अ विणए अ भावम्मि ॥ ७० ॥ 'दवे 'ति । द्रव्ये परिच्छदः खलु 'सच्चित्तादिः' सच्चित्तः- शिष्यादिः, अचित्तः - उपधिः, मिश्रश्चोभयसमवायादिति त्रिविधः । अयं च नियुक्तव्यापारोऽपेक्षितो यो ययोपकरणोत्पादनार्थग्रहणधर्मकथनग्लानप्रतिचरणादिलक्षणया लब्ध्या |समेतः स तदनुरूपे कार्ये व्यापारित इति यावदित्थमेव गच्छवृद्धि निर्जरावृद्धिसिद्धेः । भावे च दर्शनं ज्ञानं चारित्रं २ऽज्ञातो तहतपो विनयश्च परिच्छदः । एतदुभयपरिच्छदोपेत एव गणधारी सुव्यवहारी च भवतीति द्रष्टव्यम् ॥ ७० ॥ गणधारणेच्छाऽपि परिच्छन्नस्यैव युक्ता नान्यस्येत्याह
शनम्.
कम्माण णिज्जरट्ठा, इच्छंति गणस्स धारणं साहू | णो पूयद्वं सा पुण, अपरिच्छन्नेहिँ कह लब्भा? ॥ ७१ ॥
'कम्माण'त्ति । कर्मणां निर्जरार्थमिच्छन्ति गणस्य धारणं साधवो न पुनः पूजार्थं मोक्षैकाकाङ्क्षित्वात्तेषाम् । अत एव जरामरणाग्निप्रदीप्त संसारगृहप्रसुप्त भव्यप्राणिबोधकत्वेन ज्ञानादिमोक्षमार्गक्षेमप्रापकत्वेन ज्ञानादिरत्नसुपरीक्षावृद्धिकारित्वेनाविघ्नेन संसारसमुद्रपारप्रापकत्वेन गोसमगणवृत्तिसाधूनां श्वापदादिस्थानीयापराधपदजनितदुःखवारणेन ज्ञानादिगुणस्थाननयनेन च प्रतिबोधकदेशक श्री गृहिकनिर्यामकमहागोपसदृशा आचार्यपदे स्थापनीयाः प्रतिपादिताः । 'साच'
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org