________________
त्वायोगात् चशब्दाद्भिक्षुश्च द्रव्यतोऽपरिच्छदो भावतः सपरिच्छदो गृह्यते । 'एवम्' अमुना प्रकारेण 'से' तस्य गणं धारयितुं न कल्पते । एवंशब्दो विशेषद्योतनार्थः स चायम् - आचार्ये द्रव्यतोऽपरिच्छदे भिक्षोः सपरिच्छदस्यापरिच्छदस्य वा न कल्पते उभयोर्द्रव्यतोऽपि परिच्छन्नत्वे च कल्पत इति । नोकारश्च देशप्रतिषेधे तेनावसन्ने आचार्ये तत्परि वारस्य सर्वस्य संविग्नशिष्यस्याऽऽभवनात् कल्पेतापि द्रव्यतोऽपरिच्छन्नस्य, भावतोऽपरिच्छन्नस्य तु सर्वथा न कल्पत इति सिद्धम् । तदुक्तम् - "नोकारो खलु देसं, पडिसेहयति कयाइ कप्पे वि । ओसन्नम्मि य थेरे, सो चेव परिच्छओ तस्स ॥ १ ॥ ति । अत्राहुश्रुतेऽगीतार्थे वा गणं निसृजति धारयति चेदं प्रायश्चित्तमुच्यते - " अबहुस्सुए अगीयत्थे, णिसिरए वावि धारए व गणं । तद्देवसिअं तस्स उ, मासा चत्तारि भारिआ ॥ १ ॥ सत्तरतं तवो होइ, तओ छेओ पधावइ । छेएण छिन्नपरिआए, तओ मूलं तओ दुगं ॥ २ ॥” अबहुश्रुतोऽगीतार्थ इति प्रथमो भङ्गः, अबहुश्रुतो गीतार्थ इति द्वितीयः, बहुश्रुतोऽगीतार्थ इति तृतीयः, बहुश्रुतो गीतार्थ इति चतुर्थ इति चत्वारः खल्वेते भङ्गा भवन्ति । तत्र निशीथादिकं सूत्रतोऽर्थतो वा यस्यानवगतं स प्रथमो भङ्गः । यस्य पुनर्निशीथादिगतौ सूत्रार्थी विस्मृतौ स द्वितीयो भङ्गः । यः पुनरेकादशाङ्गधारी अश्रुतार्थः स तृतीयो भङ्गः । सकलकालोचितसूत्रार्थोपेतश्चतुर्थः । तत्राबहुश्रुतोऽगीतार्थ इत्यनेन भङ्गत्रयमुपात्तम् । एतदन्यतरभङ्गवत्ती गणं निसृजति धारयति वा यदि एकं द्वौ त्रीन् वा दिवसानुत्कर्षतः सप्त रात्रिंदिवानि ततः 'तदैवसिक' तेषां सप्तानां दिवसानां निमित्तत्वतः 'तस्य' गणं निस्रष्टुर्द्धारयितुर्वा प्रायश्चित्तं चत्वारो मासा गुरुकाः । ततः प्रथमसप्तदिनानन्तरमन्यानि चेत् सप्त दिनानि गणं निसृजति धारयति वा स्वयं
Jain Education International
For Private & Personal Use Only)
सूत्रार्थानभिज्ञे ग
च्छानुज्ञायां प्रायश्चित्तम्.
www.jainelibrary.org