SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चण्डसदाचार्य उदाहरणं, यथा तस्य क्षमादिरूपोत्तरगुणवैकल्येऽपि मूलगुणसामय्याच्चारित्रमप्रतिहतमेवमन्येषामपीति । विवेचितमिदमन्यत्र॥ १७०॥ अथ ये सम्यक्त्वादपि परिभ्रष्टा मूलगुणविरहिणां वेषमात्रधारिणां स्वात्मनां ज्ञानलवदुर्विदग्धतया चारित्रं व्यवस्थापयन्ति तत्प्रतिहननार्थमाह जे उ सयं पासत्था, पासत्थविहारिणो अहाछंदा । तेसु ण जुजति इमे, पुक्खरिणीपमुहदिवंता ॥७॥ वेषमात्रधा. 1. जे उत्ति । ये तु स्वयं 'पार्श्वस्थाः' मूलगुणानामपि पार्थे स्थितास्तथा 'पार्श्वस्थविहारिणः' सदैव पार्थस्थविहारम-18 रित्वे स्वेषु परित्यजन्तः 'यथाच्छन्दा' यत्तदसम्बद्धोत्सूत्रप्रलापिनो गृहिकार्यरता गारवसक्ताश्चोपलक्षणात् कुशीलादिलक्षणयुक्ताश्च चारित्रव्य वस्थापकानां तेषु 'इमे' पूर्वोक्ताः पुष्करिणीप्रमुखदृष्टान्ता न युज्यन्ते ॥ ७१ ॥ यतः प्रतिहननम् ण हु सबह वेहम्मे, दिलुतो जुत्तिसंगओ होइ । जह अन्नवस्स धूलीभूमीइ अणोरपारस्स ॥ ७२ ॥ नहुत्ति । न हि सर्वथा' सर्वप्रकारेण वैधये दृष्टान्तो युक्तिसङ्गतो भवति, यथा धूलीभूम्यां 'अनर्वापारस्य'अर्णवस्य दृष्टान्तः । भवति हि स्वल्पेनापि जलादिसाधयेण तटाके समुद्रदृष्टान्तोपन्यासस्य युक्तत्वं न तु धूलीभूम्याम्, तत्र साधर्म्यलेशस्याप्यभावात्। एवमैदंयुगीनेषु गुरुषु पूर्वगुरूणां पुष्करिण्याद्युपनयद्वारौपम्यवर्णनं युक्तं स्यात् ,मूलगुणाद्याचारमात्रसाम्यात् । न तु पार्श्वस्थादिषु, तत्र सर्वथा तदभावात् ; वेषमात्रेण साधर्म्य चाभ्युपगम्यमाने द्रव्यत्वादिना धूलीभूमिसमुद्रयोरपिसाम्यं स्यादिति भावः॥७२॥ इत्थमपर्यालोचयतां येषां स्वस्मिन् गुरुत्वधीविपर्यासस्तेषामपायमुपदर्शयति PRES-45 Jain Education International For Private Personal Use Only Www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy