SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 'जं एएण'त्ति । 'यत्' यस्मात् 'एतेन' प्रतिमाप्रतिपत्त्यादिलक्षणेन क्रमेण शुभानुबन्धाविच्छेदाद्गुणश्रेण्या प्रवर्द्धमानया सिंहतया निष्क्रान्ता सिंहतयैव विहरन्ति । तथा च मन्दक्षयोपशमस्यातिशयितभावचरणार्थमेतत्क्रमनियमः। इदानीं च प्रायो मन्द एव क्षयोपशम इति विशिष्यायमित्याचार्याभिप्रायः॥४७॥ नत्वेवमन्यथा दीक्षानिषेध इत्यत आहबीयाहाणत्थं पुण, गुरुपरतंताण दिति जुग्गाणं । अन्भासकरं चरणं, जं अट्ठ भवा चरित्तम्मि॥४८॥ | 'बीयाहाणत्य'ति । 'बीजाधानार्थ' मोक्षबीजविशेषसिद्ध्यर्थं पुनर्गुरुपरतन्त्राणां पृच्छादिना कलितयोग्यतानां 'अभ्यासकरम्' अर्गम्यमानत्वादभ्यासकरमपि 'चरणं' चारित्रं ददत्याचार्याः। 'यत्' यस्माच्चारित्रे 'अष्टैव भवाः' चारित्रप्रतिपत्तिसहिताः संसारेऽष्टावेव भवा भवन्ति, तदुक्तमावश्यके-"अट्ट भवा उ चरित्ते"त्ति । अत एवाष्टमचारित्रे सिद्धेरावश्यकत्वात्प्रव्रज्याया विशिष्टवीजत्वाद्भगवता श्रीमहावीरेण हालिकाय सा दापिता, अन्यथा तहान निरर्थकं स्यात् , सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात् । कथं तर्हि गोशालकस्य चारित्रप्रतिपत्तिभवा विराधनायुक्ता दश तदयुक्ताश्चाष्टावित्यष्टादश ? इति चेत्, विराधनायुक्तेषु भवेषु तस्य द्रव्यचारित्रस्यैव सम्भवादिति वदन्ति । अन्ये त्वाहुः-"अट्ठ भवा उ चरित्ते" इत्यत्राविराधनाभवा एव ग्राह्याः, अविराधना च दीक्षाप्रतिपत्तिमारभ्यानतिचारतयाऽऽमरणपालनम्, न च वृत्तिकृताऽऽदानभवानामेव व्याख्यानात्तदवष्टम्भेनैव सूत्रं व्याख्येयम् । आवश्यकचूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादित्याहुः । वस्तुतः सामान्यबीजाधानार्थमपि दीक्षोपयुज्यत एव, एतस्या द्रव्यसम्यक्त्वादिक्रमेणासहपरित्यागधार्मिकजनानुरागविहितानुष्ठानाहितक्षयोपशमज्ञानावरणविगमबोधिवृद्ध्यादिगुणप्राप्तिपूर्व परमदीक्षाप्राप्तिहेतुत्वस्य 255055 Jain E n For Private Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy