________________
Kod
शास्त्रमिति केवलमुच्चार्यते' । आह-तदुच्चारणं किंफलम् ? यदि मङ्गलमिति ने सम्बध्यते किं तदमङ्गलं भवति ?, उच्यतेशिष्यमतिमङ्गलपरिग्रहार्थं तदभिधानम् , इह शिष्यः कथं शास्त्रं मङ्गलैमित्येवं मङ्गलबुद्ध्या परिगृहीयात् ? इति, यस्मादिह
मङ्गलमपि मङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलं भवति, साधुवत् । आह-ततः सर्वमेवेदं मङ्गलमित्येतावदस्तु नार्थो मङ्गलत्रय| बुद्धिपरिग्रहेण, उच्यते-ननु तत्रापि कारणमुक्तम् , यथैव हि शास्त्रं मङ्गलमपि सद् न मङ्गलबुद्धिपरिग्रहमन्तरेण मङ्गलं भवति, साधुवत् , तथा मङ्गलत्रयकारणमपि अविघ्नपारगमनादि न मङ्गलत्रयबुद्ध्या विना सिध्यतीत्यतस्तदभिधानमिति ।
मगेर्गत्यर्थस्य अलप्रत्ययान्तस्य मङ्गलमिति रूपं भवति । मयतेऽनेन हितमिति मङ्गलम् , मझ्यते [अधिगम्यते] साध्यत इति यावत् । अथवा मङ्गः-धर्मः, "ला आदाने" मङ्गं लातीति मङ्गलम् , धर्मोपादानहेतुरित्यर्थः । अथवा निपातनादिष्टार्थप्रकृति-प्रत्ययोपादानाद् मङ्गलम् । इष्टार्थाश्च प्रकृतयः-"मकि मण्डने, मन् ज्ञाने, मदी हर्षे, मेदि मोद-स्वप्न-गतिषु, मह पूजायाम्" इति, एवमादीनामलप्रत्ययान्तानां मङ्गलमित्येतन्निपात्यते । मयते अनेन मन्यते वाऽनेनेति मङ्गलमित्यादि लक्षणशास्त्रानुवृत्त्या योजनीयमिति । अथवा मां गालयति भवादिति मङ्गलम् , संसारादपनयतीत्यर्थः । अथवा शास्त्रस्य मा गलो भूदिति मङ्गलम् , गल:-विनम् । मा गालो वा भूदिति मङ्गलम् , गलनं गालः, नाश इत्यर्थः । सम्यग्दर्शनादिमार्गलयनाद्वा मङ्गलमित्यादि नैरुक्ता भाषन्त इति ।
[विशेषा० गा० १५ तः २४ पर्यन्तगाथानां स्वोपज्ञटीका]
१न संशब्द्यते किं विस्खो० ॥ २°लमित्येवं परि विस्खो० ॥ ३°करण पु० सं०॥ ४ मन्यते अधिगम्यते साध्यते विखो०॥ ५ मदि मोद-मद-स्वप्न-गतिषु विस्खो । “मदि स्तुति-मोद-मद-वन-कान्ति-गतिषु” इति पाणिनिधातुपाठे, माधवीयधातुवृत्ती |च पत्र ४२ ॥ ६ शाख्याऽनुवा० मो० । शास्त्रीययाऽनु मु०॥ ७ विघ्नः विखो०॥
Jain Educatio
n
al
For Private & Personal Use Only
Mainelibrary.org