________________
Jain Educational
स माह जननमरणे, अन्योन्यनिबन्धने यथाऽसुमताम् । तह संपयावयाओ, य केइहं हेउणो अने ॥ १९६ ॥ एष पुनर्व्यापारो, भव्यानां सुकुलसम्भवानां वः । जिणधम्मे अइदुलहे, न हु कायव्वो माओ ति ॥१९७॥ सोदरभावः साधर्मिकेषु, सेवासु साधुवर्गस्य । परहियकरणे जत्तो, तुम्भेहि सया विहेव्व ॥ १९८ ॥
अथ विहिताञ्जलयस्ते, बभाषिरे नाथ ! कतिपयान् दिवसान् । इह चिट्ठसु जेणऽम्हवि, जिणधम्मे होइ कोसलं ॥ १९९॥ इति तद्वचनं श्रुत्वा, यावत् प्रतिवक्ति किञ्चिदपि भीमः । ता डमडमंतडमरुयसद्दसमुत्तसियनिवलोया ॥ २००॥ विंशतिवाहा काली, सा कापलिकयुताऽगमत्तत्र । रायसुयं नमिऊणं, उवविट्ठा कुमरनिद्दिट्ठा ॥ २०१ ॥ अभणच्च कुमार ! तदा, त्वयि करिणा नीयमान इह ससखे । ओहीइ नाउ तुह हियमिमं न चलिया पर्यंपि अहं ॥ २०२॥ तव जनकः पुरलोकः, स्मृत्वा तव गुणगणं रुदन्नधुना । कज्जवसेणं तहियं, गयाइ मे कहवि संठविउं ॥ २०३ ॥ विदधे पुरतस्तेषां मया प्रतिज्ञा यथा दिनयुगान्ते । इह मे आणेयव्वो, भीमकुमारो समित्तजुओ || २०४ || कथितं च यथा भीमो, ह्यतिष्ठपद् बहुजनं जिनेन्द्रमते । रक्खित्था बहुलोयं, मारिज्जंतं च गुरुकरुणो ||२०५|| अतिहितनिजसखसहितस्तिष्ठति कुशलेन कनकपुरनगरे । भो ! भो ! पमोयठाणे, मा हु विसायं कुणह तुम्भे ॥ २०६॥ श्रुत्वैवमुत्सुकमना, यावत् प्रस्थास्यते वरकुमारः । ता गयणयले भेरीभंभाइरवो समुच्छलिओ ॥२०७॥ चश्वद्विमानमालामध्यविमानस्थिता कमलवदना । दिट्ठा एगा देवी, दसदिसिनिनासियतमोहा || २०८ || अथ किमिति भणन् रजनीचरः करे मुद्गरं दधद् यक्षः । करकलियदित्तकत्ती, झत्ति समुट्ठेह काली वि ॥ २०९ ॥
For Private & Personal Use Only
w.jainelibrary.org