SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥८४|| परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२॥ बोधो- ज्ञानं, स च स्वार्थावबोधक्षम एव प्रकाशते-स्वस्य-आत्मस्वरूपस्य,अर्थस्य च-पदार्थस्य, योवबोधःपरिच्छेदस्तत्र, क्षम एव-समर्थ एव प्रतिभासते; इत्ययोगव्यवच्छेदः। प्रकाशत इति क्रियया-अवबोधस्य प्रकाशरूपत्वसिद्धेः-सर्वप्रकाशानां स्वार्थप्रकाशकत्वेन, बोधस्यापि तत्सिद्धिः। विपर्यये दूपणमाह-नार्थकथाऽन्यथाविति । अन्यथति- अर्थप्रकाशनेऽविवादाद्, ज्ञानस्य स्वसंविदितत्वाऽनभ्युपगमेऽर्थकथैव न स्यात् । अर्थकथापदार्थसंबन्धिनी वार्ता, सदसद्रूपाऽऽत्मकं स्वरूपमिति यावत् । (तुशब्दोऽवधारणे भिन्नक्रमश्च, स चार्थकथया | सह योजित एव) यदि हि ज्ञानं स्वसंविदितं नेष्यते, तदा तेनाऽऽत्मज्ञानाय ज्ञानान्तरमपेक्षणीयं, तेनाप्यपरमित्याद्यनवस्था; ततो ज्ञानं- तावत् स्वावबोधव्यग्रतामग्नम् ; अर्थस्तु- जडतया स्वरूपज्ञापनाऽसमर्थ इति को 8 नामाऽर्थस्य कथामपि कथयेत् । ___तथाऽपि--एवं ज्ञानस्य स्वसंविदितत्वे युक्त्या घटमानेऽपि, परे-तीर्थान्तरीयाः, ज्ञानं-कर्मतापन्नम् , अनात्मनि-न विद्यत आत्मनः स्वस्य निष्ठा निश्चयो यस्य तदनात्मनिष्ठम् , अस्वसंविदितमित्यर्थः, प्रपेदिरे-प्रपन्नाः। कुतः ?, इत्याह- परेभ्यो भयतः; परे-- पूर्वपक्षवादिनः, तेभ्यः सकाशात ज्ञानस्य स्वसंविदितत्वं नोपपद्यते, 18||८४॥ स्वात्मनि क्रियाविरोधादित्युपालम्भसम्भावनासम्भवं यद्भयं, तस्मात् , तदाश्रित्येत्यर्थः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy