SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥७७॥ दुःसंभवा; औदारिकशरीरिणामेव तदुपादानयोग्यत्वात् । प्रक्षेपाऽऽहार स्वीकारे च देवानां मन्त्रमयदे हत्वाभ्युपगमबाधः न च तेषां मन्त्रमय देहत्वं भवत्पक्षे न सिद्धम् ; " चतुर्थ्यन्तं पदमेव देवता " इति जैमिनिवचनप्रामाण्यात् । तथा च मृगेन्द्रः- “शब्देतरत्वे, युगपद्भिन्नदेशेषु यष्टृषु । न सा प्रयाति सांनिध्यं मूर्तत्वादस्मदादिवत् " ॥ १॥ सेति - देवता । हूयमानस्य च वस्तुनो भस्मीभावमात्रोपलम्भात्, तदुपभोगजनिता देवानां प्रीतिः प्रलापमात्रम् | अपि च, योऽयं त्रेताग्निः - स त्रयस्त्रिंशत्कोटिदेवतानां मुखम् ; " अग्निमुखा वै देवाः" इति श्रुतेः । ततश्चोत्तममध्यमाधमदेवानामेकेनैव मुखेन भुञ्जानानामन्योन्योच्छिष्टभुक्तिप्रसङ्गः तथा च ते तुरुष्केभ्योऽप्यतिरिच्यन्ते; तेऽपि तावदेकत्रैवाऽमत्रे भुञ्जते, न पुनरेकेनैव वदनेन । किश्च - एकस्मिन् वपुषि वदनबाहुल्यं वचन श्रूयते, यत्पुनरनेकशरीरेष्वेकं मुखमिति महदाश्चर्यम् । सर्वेषां च देवानामेकस्मिन्नेव मुखेऽङ्गीकृते, यदा केनचिदेको देवः पूजाऽऽदिनाऽऽराद्धोऽन्यश्च निन्दाऽऽदिना विराद्धः, ततश्चैकेनैव मुखेन युगपदनुग्रह निग्रहवाक्योच्चारणसङ्करः प्रसज्येत । अन्यच्च मुखं देहस्य नवमो भागः, तदपि येषां दाहाऽऽत्मकं तेषामेकैकशः सकलदेहस्य दाहात्मकत्वं त्रिभुवनभस्मीकरणपर्यवसितमेव संभाव्यत इत्यलमतिचर्चया । यश्च कारीरीयज्ञादौ वृष्ट्यादिफलेऽव्यभिचारस्तत्प्रीणितदेवतानुग्रहहेतुक उक्तः - सोऽप्यनैकान्तिकः; कचिद् व्यभिचारस्यापि दर्शनात् । यत्रापि न व्यभिचारस्तत्रापि न त्वदाहिताऽऽहुतिभोजनजन्मा तदनुग्रहः, Jain Education International For Private & Personal Use Only ॥७७॥ www.jamenbrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy