SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥२३॥ व्याख्या-जगतः-प्रत्यक्षादिप्रमाणोपलक्ष्यमाणचराचररूपस्य विश्वत्रयस्य, कश्चिद्-अनिर्वचनीयस्वरूपः, पुरुषविशेषः कर्ता-स्रष्टा, अस्ति-विद्यते । ते हि इत्थं प्रमाणयन्ति-उर्वीपर्वततर्वादिकं सर्व, बुद्धिमत्कर्तृकं, कार्यत्वात् । यद् यत् कार्य तत् तत् सर्व बुद्धिमत्कर्तृक, यथा घटः, तथा चेदं, तस्मात् तथा; व्यतिरेके व्योमादि । यश्च बुद्धिमास्तत्कता--स भगवानश्विर एवेति । न चायमासिद्धो हेतुः--यतो भूभूधरादेः स्वस्वकारणकलापजन्यतया, अवयवितया वा कार्यत्वं सर्ववादिनां प्रतीतमेव । नाप्यनैकान्तिको--विरुद्धो वा-विपक्षादत्यन्तव्यावृत्तत्वात् । नापि कालात्ययापदिष्टःप्रत्यक्षानुमानाऽऽगमाऽवाधितधर्मधर्म्यनन्तरप्रतिपादितत्वात् । नापि प्रकरणसमः--तत्प्रतिपन्थिधोपपादनसमर्थप्रत्यनुमानाभावात् । न च वाच्यम्-ईश्वरः--पृथ्वीपृथ्वीधरादेर्विधाता न भवतिः अशरीरत्वात् : निर्वृत्तात्मवत् । इति प्रत्य: नुमानं तद्भाधकमिति । यतोऽत्रेश्वररूपो धर्मी प्रतीतोऽप्रतीतो वा प्ररूपितः । न तावदप्रतीतः; हेतोराश्रयासिद्धिप्रसङ्गात् । प्रतीतश्चेद्, येन प्रमाणेन स प्रतीतस्तेनैव किं स्वयमुत्पादितस्वतनुर्न प्रतीयते ?; इत्यतः कथमशरीरत्वम् । तस्मानिरवद्य एवायं हेतुरिति । सचैक इति-चः-पुनरर्थे । स पुनः-पुरुषविशेषः एकः-अद्वितीयः। बहूनां हि विश्वविधातृत्वस्वीकारे,परस्परविमतिसंभावनाया अनिवार्यत्वाद्-एकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्वमसमञ्जसमापनीपोत, इति । | ॥२३॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy