SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ स्याद् | रोहसमर्था भवन्ति, नाऽपनीततुषा दग्धर्वाजभावा वा। तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति ना | ऽपनीतक्लेशो न प्रसंख्यानदग्धक्लेशवीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोगः" इति । ॥२०॥ | अक्षपादोऽप्याऽऽह-"न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य" इति । एवं विभङ्गज्ञानिशिवराजर्षिमतानुसारिणो दपयित्वा उत्तरार्द्धन भगवदपज्ञमपरिमितात्मवादं निर्दोषतया स्तौति- षड़जीवेत्यादि। त्वं तु हे नाथ!, तथा तेन प्रकारेण, अनन्तसख्यमनन्ताख्यसंख्याविशेषयुक्तं षड्जीवकायम्-अजीवन् , जीवन्ति. जीविष्यन्ति चेति जीवा इन्द्रियादिज्ञानादिद्रव्यभावप्राणधारणयुक्ताः, तेषां "सङ्केऽदूचे"॥५/३१८०।। इति चिनोतेघत्रि आदेश्व कत्वे कायः समूहः जीवकायः पृथिव्यादिः, पण्णां जीवकायानां समाहारः षड्जीवकायम् , पात्रादिदर्श नाद् नपुंसकत्वम् । अथवा षण्णां जीवानां कायः प्रत्येकं सङ्गातः षड्जीवकायस्तं षड्जीवकायम्-पृथि| व्य-प्-तेजो-वायु-वनस्पति-त्रसलक्षणषड्जीवनिकायम् , तथा तेन प्रकारेण, आख्यः मर्यादया प्ररूपितवान् , 1| यथा येन प्रकारेण, न दोषो दूषणमिति जात्यपेक्षमेकवचनम्-प्रागुक्तदोपद्वयजातीया अन्येऽपि दोपा यथा न प्रादुःष्यन्ति तथा त्वं जीवाऽऽनन्त्यमुपदिष्टवानित्यर्थः । ' आख्यः' इति आङ्पूर्वस्य ख्यातेरङि सिद्धिः । | त्वमित्येकवचनं चेदं ज्ञापयति- यद् जगद्गुरोरेव एकस्य ईदृक्मरूपणसामर्थ्य, न तीर्थान्तरशास्तृणामिति । ____ पृथिव्यादीनां पुनर्जीवत्वमित्थं साधनीयम्- यथा सात्मिका विद्रुमशिलादिरूपा पृथिवी, छेदे समान २०००००००००००००००००० ||२००॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy