SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥ १८७॥ ॥ व्यवस्थापयति, दुर्नयत्वं चास्य मिथ्यारूपत्वात्, मिथ्यारूपत्वं च तत्र धर्मान्तराणां सतामपि निवात् । तथा 'सद्' इति उल्लेखवान् नयः, स हि 'अस्ति घटः' इति घंटे स्वाभिमतमस्तित्वधर्म प्रसाधयन् शेषधर्मेषु गजनिमीलिकामालम्बते । न चास्य दुर्नयत्वं धर्मान्तराऽतिरस्कारात् न च प्रमाणत्वं स्याच्छब्देन अलाञ्छितत्वात् । " स्यात्सदिति - 'स्यात्कथञ्चित्, सद् वस्तु', इति प्रमाणम् । प्रमाणत्वं चाऽस्य दृष्टेष्टबाधितत्वाद् विपक्षे बाकसद्भावाच्च । सर्वे हि वस्तु स्वरूपेण सत्, पररूपेण चाऽसद् इति असकृदुक्तम् । सदिति दिमात्र देशनार्थम् अनया दिशा असत्व- नित्यत्वा ऽनित्यत्व-वक्तव्यत्वा वक्तव्यत्व-सामान्य- विशेषादि अपि बोद्धव्यम् । इत्थं वस्तुस्वरूपमाख्याय स्तुतिमाह - 'यथार्थदशी' इत्यादि । दुनीतिपथं दुर्नयमार्गम्, तुशब्दस्य अवधारणार्थस्य भिन्नक्रमत्वात् त्वमेव आस्थः त्वमेव निराकृतवान्, न तीर्थान्तरदैवतानि । केन कृत्वा ?, नय प्रमाणपथेन, नय-प्रमाणे उक्तस्वरूपे, तयोर्मार्गेिण प्रचारेण । यतस्त्वं यथार्थदर्शी - यथार्थोऽस्ति तथैत्र पश्यतीत्येवंशीलो यथार्थदर्शी विमल केवलज्योतिषा यथावस्थितवस्तुदर्शी, तीर्थान्तरशास्तारस्तु रागादिदोपकालुष्यकलङ्कितत्वेन तथाविधज्ञानाभावाद् न यथार्थदर्शिनः, ततः कथं नाम दुर्नयपथमथने प्रगल्भन्ते ते तपस्विनः ? । न हि स्वयमनयप्रवृत्तः परेषामनयं निषेद्धुमुद्धरतां धत्ते । इदमुक्तं भवति - यथा कश्चित् सन्मार्गवेदी परोपकारदुर्ललितः पुरुषवर श्वापद- कण्टकायाकीर्ण मार्ग परित्याज्य पथिकानां गुणदोषोभय Jain Educao International For Private & Personal Use Only ।।।१८७।। welibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy