________________
स्याद्
॥१८६॥
साम्प्रतं दुर्नय-नय-प्रमाणप्ररूपणद्वारेण "प्रमाणनयैरधिगमः" इति वचनाद् जीवाऽजीवादितत्त्वाऽधिगमनिवन्धनानां तेषांप्रमाणनयानां प्रतिपादयितुः स्वामिनः स्याद्वादविरोधिदुर्नयमार्गनिराकरिष्णुमनन्यसामान्यं वचनातिशयं स्तुवन्नाह
सदेव, सत्, स्यात्सदिति त्रिधाऽर्थो मीयेत दुर्नीति-नय-प्रमाणैः।
यथार्थदर्शी तु नय-प्रमाणपथेन दुर्नीतिपथं त्वमास्थः ॥ २८॥ | अर्यते परिच्छिद्यत इत्यर्थः पदार्थः, त्रिधा त्रिभिः प्रकारैः, मीयेत परिच्छिद्येत, विधौ सप्तमी। कैस्त्रिभिः |
प्रकारैः?, इत्याह- दीति-नय-प्रमाणः- नीयते परिच्छिद्यते एकदेशविशिष्टोऽर्थ आभिरिति नीतयों | दुष्टा नीतयो दुर्नीतयो दुर्नया इत्यर्थः, नया नैगमादयः, प्रमीयते परिच्छिद्यतेऽर्थोऽनेकान्तविशिष्टोऽनेन इति | प्रमाणम्- स्याद्वादात्मकं प्रत्यक्ष-परोक्षलक्षणम् ; दुर्नीतयश्च नयाच प्रमाणे च दुनीति-नय-प्रमाणानि तैः । केनो| लेखेन मीयेत?, इत्याह-सदेव, सत्, स्यात्सद्' इति । सदिति अव्यक्तत्वाद् नपुंसकत्वम्, यथा किं तस्या गर्भे | | जातमिति । सदेवेति दुर्नयः, सदिति नयः, स्यात्सदिति प्रमाणम् । तथाहि- दुर्नयस्तावत्सदेव इति ब्रवीति| 'अस्त्येव घटः' इति, अयं वस्तुनि एकान्ताऽस्तित्वमेव अभ्युपगच्छन् इतरधर्माणां तिरस्कारेण स्वाभिप्रेतमेव धर्म
१ तत्वार्थसूत्रे प्रथमाध्याये षोडशं सूत्रम् । २ इयं च श्रीहैमव्याकरणप्रसिद्धा लिङ्लकारस्य संज्ञा ।
॥१८६।।
Jain Education intemational
For Private & Personal Use Only
www.jainelibrary.org