SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ स्यादू ० ।।१८२ ।। न च बन्ध-मोक्षौ घटेते । पुनः पुनर्नञः प्रयोगोऽत्यन्ताघटमानतादर्शनार्थः । तथा हि- एकान्त नित्ये आत्मनि तावत् सुख-दुःखभोगौ नोपपद्येते - नित्यस्य हि लक्षणम्' अप्रच्युताऽनुत्पन्नस्थिरैकरूपत्वम्', ततो यदा आत्मा सुखमनुभूय स्वकारणकलाप सामग्रीवशाद् दुःखमुपभुङ्क्ते, तदा स्वभावभेदाद् अनित्यत्वापच्या स्थिरैकरूपताहानिप्रसङ्गः । एयं दुःखमनुभूय सुखमुपभुञ्जानस्याऽपि वक्तव्यम् । अथ अवस्थाभेदाद् अयं व्यवहारः, न चाडवस्थासु भिद्यमानास्वपि तद्वतो भेदः सर्पस्येव कुण्डलार्जवाद्यवस्थासु इति चेत् । न, तास्ततो व्यतिरिक्ताः, अव्यतिरिक्ता वा ? । व्यतिरेके, तास्तस्येति संबन्धाऽभावः, अतिप्रसङ्गात् । अव्यतिरेके तु तद्वानेवेति तदवस्थितैव स्थिरैकरूपताहानिः । कथं च तदेकान्तैकरूपत्वेSवस्थाभेदोsपि भवेदिति ? | किंच सुख-दुःखभोगौ पुण्य-पापनिर्वच्यौं, तन्निर्वर्तनं चार्थक्रिया, साच कूटस्थनित्यस्य क्रमेण अक्रमेण वा नोपपद्यत इत्युक्तप्रायम् । अत एवोक्तं " न पुण्य पापे " इति - पुण्यं दानादिक्रियोपार्जनीयं शुभं कर्म, पापं हिंसादिक्रियासाध्यमशुभं कर्म ते अपि न घटेते प्रागुक्तनीतेः । तथा न बन्ध-मोक्षौ - बन्धः कर्म पुद्गलैः सह प्रतिप्रदेशमात्मनो वह्नययःपिण्डवद् अन्योऽन्यसंश्लेषः, मोक्षः कृत्स्नकर्मक्षयः, तावप्येकान्तनित्ये न स्याताम् । बन्धो हि संयोगविशेषः, स च "अप्राप्तानां प्राप्तिः” इतिलक्षणः, प्राक्कालभाविनी अप्राप्तिरन्यावस्था, Jain Education International For Private & Personal Use Only ।।।१८२ ।। www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy