SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१८॥ अनित्यवादी नित्यवादिनं प्रति पुनरेवं प्रमाणयति- सर्व क्षणिकं सत्वात् , अक्षणिके क्रम-योगपद्याभ्यामर्थक्रियाविरोधाद् अर्थक्रियाकारित्वस्य च भावलक्षणत्वात , ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्त्तयदिति क्षणिकसिद्धिः । न हि नित्योऽर्थोऽर्थक्रियां क्रमेण प्रवर्तयितुमुत्सहते, पूर्वार्थक्रियाकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां क्रमेण प्रवृत्तेः; अन्यथा पूर्व क्रियाकरणाऽविरामप्रसङ्गात् , तत्स्वभावप्रच्यवे च नित्यता प्रयातिः अतावस्थ्यस्याऽनित्यतालक्षणत्वात । अथ नित्योऽपि क्रमवर्तिनं सहका| रिकारणमर्थमुदीक्षमाणस्तावदासीत् , पश्चात् तमासाद्य क्रमेण कार्य कुयादिति चेत् । न, सहकारिकारणस्य नित्येऽर्थेऽकिश्चित्करत्वात , अकिञ्चित्करस्याऽपि प्रतीक्षणेऽनवस्थाप्रसङ्गात । नापि योगपद्येन नित्योऽर्थोऽ- | थक्रियां कुरुतेः अध्यक्षविरोधात्- न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते, करोतु वा तथाऽप्याऽऽद्यक्षणे एव सकलक्रियापरिसमाप्तेदितीयादिक्षणेषु अकुर्वाणस्यानित्यता बलाद् आढोकतेः कर णाऽकरणयोरेकस्मिन् विरोधाद् इति । तदेवयकान्तद्येऽपि ये हेतवस्ते युक्तिसाम्या विरुद्धं न व्यभिचरन्तीत्यविचारितरमणीयतया मुग्धजनस्य ध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनकान्तिका इति । अत्र च नित्यानित्यैकान्तपक्षप्रतिक्षेप एवोक्तः । उपलक्षणत्वाच्च सामान्यविशेषाद्यकान्तवादा | अपि मिथस्तुल्यदोषतया विरुद्धा व्यभिचारिण एव हेतृनुपस्पृशन्तीति परिभावनीयम् । धियोऽन्धत्वमिति मतम् । ०००००००००००००००००००००००००००००००००००००००० ॥१८॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy