________________
स्याद्०
॥१६८॥ ॥
तथाहि - कुम्भो द्रव्यतः पार्थिवत्वेनाऽस्ति ; नाऽऽप्यादिरूपत्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन ; न कान्यकुब्जादित्वेन । कालतः शैशिरत्वेन ; न वासन्तिकादित्वेन । भावतः श्यामत्वेन न रक्तादित्वेन । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम्, इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्ज्येत ; प्रतिनियतस्वार्थाऽनभिधानात् । यदुक्तम्
"वाक्येऽवधारणं तावदनिष्टाऽर्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित् " ॥ १ ॥
तथाsयस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनाऽपि सर्वप्रकारेणाऽस्तित्व प्राप्तेः प्रतिनियत स्वरूपानुपपत्तिः स्यात् । तत्प्रतिपत्तये 'स्याद्' इति शब्दः प्रयुज्यते - स्यात्कथंचित् स्वद्रव्यादिभिरेवाऽयमस्ति ; न परद्रव्यादिभिरपीत्यर्थः । यत्राऽपि चासौ न प्रयुज्यते तत्रापि व्यवच्छेद फलैवकारवद् बुद्धिमद्भिः प्रतीयत एव । यदुक्तम्
46
“ सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः " ॥ १ ॥ इति प्रथमो भङ्गः ।
स्यात्कथंचिद् नास्त्येव कुम्भादिः स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वाऽनिष्टौ हि प्रतिनियतस्वरूपाऽभावाद् वस्तुप्रतिनियतिर्न स्यात् । न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमिति वक्तव्यम् ;
१ एव-शब्दः ।
Jain Education International
For Private & Personal Use Only
॥१६८॥
www.jainelibrary.org