SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥१६०॥ तत्त्वं परमार्थभूतं वस्तु-जीवाऽजीवलक्षणम्, अनन्तधर्मात्मकमेव - अनन्तास्त्रिकालविषयत्वाद् अपरिमिता ये धर्माः सहभावनः क्रमभाविनश्व पर्यायाः; त एवात्मा स्वरूपं यस्य तदनन्तधर्मात्मकम् एवकारः प्रकारान्तरव्यवच्छेदार्थः । अत एवाह - " अतोऽन्यथा " इत्यादि । अतोऽन्यथा उक्तप्रकारवैपरीत्येन, सत्त्वं वस्तुवमसूपपदं सुखेनोपपाद्यते घटनाकोटिसंटङ्कमारोप्यते इति सूपपादं न तथा अनूपपाद; दुर्घटमित्यर्थः । अनेन साधनं दर्शितम् । तथा हि- तत्त्वमिति धर्मि, अनन्तधर्मात्मकत्वं साध्यो धर्मः, सच्चान्यथानुपपत्तेरिति हेतु:, अन्यथानुपपत्त्येकलक्षणत्वाद्धेतोः । अन्तर्व्याप्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनम्, यदनन्तधम्र्मात्मकं न भवति तत् सदपि न भवति, यथा वियदिन्दीवरम्, इति केवलव्यतिरेकी हेतुः साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनाऽन्वयाऽयोगात् । अनन्तधर्मात्मकत्वं च - आत्मनि तावद् साकाराsनाकारोपयोगिता, कर्तृत्वं, भोक्तृत्वं, प्रदेशाष्टकनिश्चलता, अमूर्त्तत्वम्, असंख्यातप्रदेशात्मकता, जीवत्वमित्यादयः सहभाविनो धर्म्माः । हर्ष-विषाद-शोकसुख-दुःख-देव-नर-नारक-तिर्यक्त्वादयस्तु क्रमभाविनः । धर्मास्तिकायादिष्वपि असंख्येयमदेशात्मकत्वम्, गत्याद्युपग्रहकारित्वम् मत्यादिज्ञानविषयत्वम्, तत्तदवच्छेदकावच्छेद्यत्वम्, अवस्थितत्वम्, अरूपित्वम्, एकद्रव्यत्वम्, निष्क्रियत्वमित्यादयः । घटे पुनरामत्वम्, पाकजरूपादिमत्त्वम्, पृथुवुनोदरत्वम्, कम्बुग्रीवत्वम् जलादिधारणाहरणसामर्थ्यम्, मत्यादिज्ञानज्ञेयत्वम्, नवत्वम्, पुराणत्वमित्यादयः । एवं सर्व Jain Education International For Private & Personal Use Only ||॥१६०॥ www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy