SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१४८॥ इतिवचनस्य च का गतिः । एवमुत्पत्तिरुत्पादयति, स्थितिः स्थापयति, जरा जर्जरयति, विनाशो नाशयतीति चतुःक्षणिकं वस्तु प्रतिजानाना अपि प्रतिक्षेप्याः, क्षणचतुष्कानन्तरमपि निहितप्रत्युन्मार्गणा- 18 दिव्यवहाराणां दर्शनात् । तदेवमनेकदोषापातेऽपि यः क्षणभङ्गमभिति, तस्य महत् साहसम् । इति । काव्यार्थः। ____अथ ताथागताः क्षणक्षयपक्षे सर्वव्यवहारानुपपत्ति परैरुद्भावितामाकर्ण्य, इत्थं प्रतिपादयिष्यन्ति-यत्सर्वपदार्थानां क्षणिकत्वेऽपि वासनावललब्धजन्मना ऐक्याध्यवसायेन ऐहिकाऽऽमुष्मिकव्यवहारप्रवृत्तेः कृतप्रणा-18 शादिदोषा निरवकाशा एव, इति । तदाकूतं परिहतुकामस्तत्कल्पितवासनायाः क्षणपरम्परातो भेदाभेदानु. भयलक्षणे पक्षत्रयेऽप्यघटमानत्वं दर्शयन् स्वाभिप्रेतभेदाभेदस्याद्वादमकामयमानानपि तानङ्गीकारयितुमाह सा वासना सा क्षणसन्ततिश्च नाऽभेद-भेदा-ऽनुभयैर्घटेते। ततस्तटाऽदर्शिशकुन्तपोतन्यायात् त्वदुक्तानि परे श्रयन्तु ॥१९॥ सा शाक्यपरिकल्पिता, त्रुटितमुक्तावलीकल्पानां परस्परविशकलितानां क्षणानामन्योऽन्याऽनुस्यूतप्रत्ययजनिका, एकसूत्रस्थानीया सन्तानाऽपरपर्याया वासना । वासनेति- पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुः ॥१४८।। सा च, क्षणसन्ततिस्तदर्शनप्रसिद्धाः प्रदीपकलिकावत् नवनवोत्पद्यमानापरापरसदृशक्षणपरम्परा, एते द्वे अपि Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy