________________
रायपसेणइयं ।
॥११६॥
यथोक्तानुष्ठानानुष्ठायिसाधुपर्षदः 'जतिपरिसाए' इति यतन्ते उत्तरगुणेषु विशेषतः इति यतयः-विचित्रद्रव्याद्यभिग्रहाद्यपेताः साधवः | तेषां पर्षदो यतिपर्षदः 'विदुपरिसाए' इति विद्वत्परिषदः-अनेकविद्वज्जनपर्षदः देवपर्षदः क्षत्रियपर्षदः इक्ष्वाकुपर्षदः कौरव्यपर्षदः कथंभूतायाः ? इत्याह-'अणेगसयाए' इति अनेकानि पुरुषाणां शतानि संख्यया यस्यां सा अनेकशता तस्याः 'अणेगवंदाए' इति अनेकानि वृन्दानि यस्याः सा तथा तस्याः 'अणेगसयवंदपरिवाराए' इति अनेकशतानि अनेकशतसंख्यानि वृन्दानि परिवारो यस्याः सा तथा तस्याः 'महतिमहालियाए परिसाए' अतिशयेन महत्याः पर्षदः । 'ओहबले' इति ओघेन प्रबाहेण बलं यस्य-न तु कथयतो बल-14 हानिः उपजायते इति भावः । एवं जहा उववाइए तहा भाणियव्वं' इति एवं यथा औपपातिके ग्रन्थे तथा वक्तव्यम् । तच्च एवम्"=अइबले- महाबले अपरिमियबल-वीरिय-तेय-माहप्प-कतिजुत्ते सारदनवथणियमहुरगंभीर-कुंचनिग्धोस-दुदुभिस्सरे उरे वित्थडाए कंठे वट्टियाए सिरे समावत्ताए अगग्गयाए अमम्मणाए फुडविसयमहुरगंभीरगाहिगाए सव्वक्खरसन्निवाइयाए गिराए सव्यमासाणुगामिणीए सव्वसंसयविमोयणीए अपुणरुत्ताए सरस्सईए जोयणनीहारिणा सरेणं अद्धमागहाए भासाए अरिहा धम्म परिकहेइ
= अतः आरभ्य यावान् प्राकृतः पाठः सूचितः तावान् भा० १ प्रतौ न प्रतिभाति। ४ अतिबल: महाबलः अपरिमितबल-वीर्य-तेजःमाहात्म्य-कान्तियुक्तः शारदनवस्तनितमधुरगम्भीर-क्रौञ्चनिर्घोष-दुन्दुभिस्वरः उरसि विस्तृतया कण्ठे वृत्तिकया-वर्तुलया शिरसि समावृत्तया अगद्गदया अमन्मनया स्फुटविषयमधुरगम्भीरप्राहिकया सर्वाक्षरसन्निपातिकया गिरा सर्वभाषानुगामिन्या सर्वसंशयविमोचिन्या अपुनरुक्तया सरस्वत्या योजननिर्झरिणा स्वरेण अर्धमागध्या भाषया अर्हन् धर्म परिकथयति । तद् यथा अस्ति लोकः अस्ति अलोकः अस्ति जीवः अस्ति अजीवः' । एष समप्रः पाठः तस्य व्याख्याऽपि च औपपातिकमन्थतः (पृ० ७७) बोध्या ।
lain Educatio
n
al
For Private Personal use only
Twjainelibrary.org