________________
पुण्डरीक- 8 अयमा दिजिनेन्द्रनन्दने भुवनेन्द्रो धृतरागधी-रयः । हृदयं मम धीरयत्यपि स्वदृशा सौम्यरुचिस्पृशा भृशम् ॥२॥
— इति स्मयः ।
1186 11
भुवनोत्तमकामिनीजनो हृदये ध्यायति यं रतक्षणे। रमयेद् यदि सोऽपि मां विभुः
परशृङ्गारसुवासुवाम्बुविः ॥ ३ - इति स्मरः । भरतेश्वरनेत्रजं जनद्वितयीहृत्कमलेऽस्ति मे तथा । अचिरादपि कामिनीजनप्रभुता संभवितेति वेद्म्यहम् ॥ ४ इति हर्षः ॥ किमु मौग्ध्यमथो महोदधेः किमहं ज्ञानमहोदधेः पुरः । विदुषा विभुनाऽधुनाऽमुना सह शक्ष्यामि न वक्तुमुत्तमम् ॥५ - इति साध्वसम् ॥ चिरमित्यनुचिन्त्य ढौकने निहितेऽसौ सुरसिन्धुदेवता । प्रणनाम सखीशताऽऽवृता भरतं भारतभूमिदैवतम् ॥ ६ ॥ या सुरी सा गङ्गाः
प्रतिहारिकया सुविष्टरे निहिते रत्नमये सुरापगा । भरतेशितुरग्रतस्तद्ा प्रविवेश स्मितहृष्टलोचना ॥७॥ प्रथितप्रभुता - पवित्रितं पृथिवीशोऽप्रथयद् वचः शुचि। सुखिनी किमु देवि ! विद्यसे सं पुनाना जगतो जनं जलैः॥ अवदत् स्मितभासुरीकृताऽखिलरत्नप्रतिभा सुरी च सा ।
जयति त्वयि देव! किं कुतोऽप्यसुखं स्याद् जगदीश ! जन्मिनाम् ॥ ९ ॥ नवकीर्तिसरोऽन्तरे मनः - कलहंसः सुखितोऽस्मि मे तरन् । भवताऽस्मि कृता पवित्रितास्पदमद्य त्वनवद्यदर्शन! |
१ सु-आसने । २ स पृथिवीशः ।
४
ܚ
१२
-0000000000
Jain Education International
90poapoo
For Private & Personal Use Only
चरित्रम् सर्गः -२
1186 11
www.jainelibrary.org