SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ डुण्डरीक- स्व चिकुरनिकुरम्बं : काश्चनाऽम्भोजनालैर्निजकमिह नियम्य स्वर्णरुक् कीरसंस्थः । सुरगिरिरिति नीलं विद्युता वेष्टिताङ्गं दधदिव नवमेघं राजराजो रराज ॥ २३ ॥ ॥ ३०३|| तदनु सरसरूपाः निस्सरन्त्यः सरस्याः कलितजलजराज्यो राजनाय विरेजुः । मदनमवगणय्याऽनङ्गमस्त्राणि नीत्वा रतिरिव बहुरूपा चेलुषी जेतुमुर्वीम् ||२४|| मलयजघनसारैः स्मेरकाश्मीरपूरैः घनमृगमदसारैः श्वेतशोणासिताभम् । शशभृति पिहिता सैंहिकेयेन सायं गगनमिव सरोऽभाद् गोपतेर्निर्गमेण ||२५|| अथ: भरतनरेन्द्रः क्लिन्नवासांसि मुक्त्वा शुभवशतवुकूलैर्भूषितो भाभिराभात् । परिहृतभृशवर्षत्प्रावृषेण्याऽम्बुवाहः परिवृत इव सूर्यः शारदैर्वारिदौधैः ॥२६॥ तदनु : भरतनाथे चित्रशालां विशालामुपगतवति सर्वान्तःपुरीभिः परीते । नवनिधिपतिदेवैरर्पितं भूषणौघं तिलक इह सुवण्ठोऽभ्यानयत् सत्करण्डे ||२७|| भरतनृपतिभक्तैस्तैर्निधीनामधीशैः सुरभुवनमणीभिर्निर्मितां भूषणालीम् । प्रमुदितवनितानां देहसंभूषणार्थं द्रुततरमुपनिन्युः पेटिकाश्चेटिकाभिः ॥ २८ ॥ अविशद् भरत आदर्शगेहम्~~~ ) कृतमलयजलेपोऽलंकृत ङ्गो विशेषाद् अचिररुचिरशेषप्रेयसी प्रेमपूर्णः । अविकलनिजरूपं वीक्षितुं स क्षितीशोऽविशदमलतराभाऽऽदर्शगेहं स्वमनम् ॥ २९ ॥ ( भरतस्य विराक्तनिमित्तम् — ) विमलमुकुरभित्तौ स्वस्वरूपं सुssरूपं सकलमकलयंस्तत् प्रत्युपाङ्ग सरङ्गः । १ भूपतेः सूर्यस्य वा । २ काचगृहम् । ३ स्वपरिमितम् । ४ १२ 200000000 Jain Educationtemational For Private & Personal Use Only 000000 ∞∞∞∞∞ चरित्रसमाप्ति ॥३०३॥ www.helibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy