________________
J
सगे:-1
पुण्डराक- इत्युक्ते भूपपुत्रेण निष्ठुरस्थाऽपि रक्षसः। अवबिभूवुलोमानि तं द्रष्टमिव सात्विकम् ॥१९६॥ ॥२२०॥
राक्षसो विस्मयाद् ध्यौ नाऽयं योगी भवेद् ध्रुवम् । व्रते वा चलिचित्तो यो दुःखे न स हि सासहिः।। निश्चित्येति समुत्थाय कुमारवदनाऽम्बुजम् । उन्नम्य निजहस्तेन राक्षसोऽथ व्यलोकयत् ॥१९८॥ पूर्णेन्दु हृच्चकोराणां राजाऽजं लोचनालीनाम् । तन्मुखं प्रेक्ष्य दुःखाश्रुपूर्णाख्यो राक्षसोऽवदत् ॥१९९॥ हा हा नरोत्तमस्याऽस्य जगत्कल्पतरोर्मया। सत्वपीयूषकुण्डस्य विहितं वहितं महत् ॥२०॥
(प्रसन्नो राक्षसो भुवनभानुं जीवितं ददौ ) योगिनं यः परित्राय निजं देहं ददौ मम । परोपकारिणं तं हा! मारयामि नरं कथम् ? ॥२०१॥
रक्षोराजो विचिन्त्यैवमौषधीं व्रणरोहिणीम् । सुकुमारे कुमारस्य मूछितेऽङ्गे व्यलेपयत् ॥२०२॥ 8 रूढवणस्तयोषध्या कुमारो लब्धचेतनः । उत्तस्थौ मम देहं भो! भक्षयेति पुनर्वदन् ॥२०३॥ ततश्च, सर्वसत्त्वहितं सत्वसहितं नृपनन्दनम् । पलंदो विपुलानन्दो नवा स्तुत्वा तिरोऽभवत् ॥२०४॥
( भुवनभानोः श्मशान काष्ठप्रहणम्-) 8 अथाऽत्राऽभ्येति मातङ्ग उच्चैर्वाचमुवाच सः। रेऽर्धदग्धानि दारूणि मीलितानि त्वया न किम् ? ॥२०॥
अधुना तानि वक्ष्यामीत्युदित्वा स नृपात्मजः । काष्ठानि मीलयामास चित्ते स्तुवति भाऽन्त्यजे? ॥२०६॥ इतश्च- अन्धकाररजापुञ्जमरुणो गगनाङ्गणात् । प्रमाटि स्म दिनाधीशे तत्राऽऽजिगमिरे
॥२०७॥ दोषाकरं कलङ्काख्यं सेवमाना निशाचर। गृहाद् द्वीपान्तरं जग्मुरागते चण्डरोचिंषि ॥२०८॥
oooooooAxOOOOOOOOOO
200000 2000000000000000000000000000000000000000300
१ लोचनभ्रमराणाम। २ राक्षसः। ३ " वहीं प्रापणे " धातोः । ४ अगन्तुमिच्छी।
रोचीषि-किरणाः ।
४२२०॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org