________________
8 परित्रम् ४ सर्गः-६
पुण्डरीक- ततो विजयसेनं तं श्वानवृत्तविशारदम् । राजा संकेतयामास मुनिविज्ञप्तिकाकृते ॥२३॥
ह अथो विजयसेनोऽयं मुनिं नत्वाऽवद् वचः । प्रभो ! प्रथममस्यैव स्वरूपं श्रूयतां शुनः ॥२४॥ ताहि ॥२०७॥ 18 ( गुणारामशुनकवृत्तान्तम्-)
श्रीसोमयशसो राज्ञः सेवायै गच्छतः पथि । सारमेयममुं दृष्ट्वा मनो मोहमुवाह मे ॥२५॥ ततो मया ममत्वेन श्वानोऽयं जगृहे गृहे । भोजितो भोजनैः सारभूषितो भूषणैस्तथा ॥२६॥ किं बहना? क्षणं स्थातुं न शक्नोमि श्वानमेनं विना विभो ।तदाप्रभृत्यतोऽनेन सार्ध तिष्ठामि मामि अहं युगादिदेवस्य प्रासादेऽगममन्यदा । तदा स्वामिन् ! अयं श्वानोऽप्याजगाम समं मया ॥२८॥ अहं गर्भगृहे यावदादिदेवस्य पूजनम् । अकार्ष हर्षतस्तावत् श्वानोऽयं तस्थिवान् बहिः ॥२९॥ ततः पौषधशालायां गुरून यावन्नमाम्यहम् । तावत् प्रथममेव श्वा नमश्चक्रे तथाविधिः ॥३०॥ ईदृग्विनयतुष्टेन हर्षोत्कर्षवशाद् मया। गुणाराम इति ख्यातिः श्वानस्यास्य तदा ददे ॥३१॥
बहना?-सद्धर्मकर्ममर्माणि जानाति सकलान्यसौ। तिर्यग्योनिस्थितो ज्ञानी त्वयं मे विस्मयो.दि अतः- ( गुणारामशुनक विषये प्रदन:-- ) कथं मेऽस्योपरि स्नेहो ज्ञानी श्वानोऽप्यसौ कथम् । कारणं कथ्यतामेतत् संदेहाम्भोधितारणम ॥१३॥ ततो विजयसेनस्य पृच्छामाकर्ण्य सुनिर्मलाम् । प्रभुः श्रीपुण्डरीकोऽयं जगाद गर्दतां वरः ॥३४॥ हंहो विजयसेन ! त्वं स्वकीयाशयसंशयम् । पृष्टवानसि तद्युक्तं गुरूणां लाभ एष हि ॥३॥
OcOopsaohoooooooooooo
1000000000000000000000000000000000000000000000000000000
१ भाषायाम्-गभारो २ वक्तृणाम् ।
॥२०७॥
Jain Educatiotolemahonal
For Private & Personal use only
wwolinelibrary.org
12