SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ 0000000 पुण्डरीक-8 तां कन्या लक्षणर्धन्यां प्रभुः प्रेक्ष्य विचाय च । स्मित्वा ययाचे तं भूपं भरतायाऽऽत्मसूनवे ॥ ७७॥ २०॥ अथ देवयशाभूपः प्रणिपत्य जगत्पतिम् । स्वकरी कोरकीकृत्ये जगाद जगतां वरः ॥ ७८ ॥ जगदीश ! क्व ते पुत्रो देवेभ्योऽधिककान्तिमान् । मम त्वत्पदासस्य मुग्धरूपा क्व बालिका ॥ ७९ ॥ ४ किन्तु प्रभो ! मे तनया सवयास्तनयेन ते। अतः प्रसादमाधाय प्रमाणय मनोरथम् ॥ ८० ॥ इति प्रतिश्रुतेऽनेन भरतं स्वसुतं प्रभुः। व्यवाहयत सविधिना कुमारीमृषभश्रियम् ॥ ८१ ॥ कुमारं भरतं मुग्धं क्रीडारम्भरतं तया । वन-वाप्यादिषु प्रेक्ष्य कुतुकी स्वजनोऽभवत् ॥ ८२ ॥ कटाक्षर्वचनैः पाणिक्षेपैरालिङ्गनस्तयोः। स्नेहेन यौवनेनोच्चस्त्रपा-मौग्ध्ये तनूकृते ॥ ८३ ॥ ८ बाल्यसेतुं व्यतिक्रम्य यौवनाम्भोधिमध्यगौ । तौ दम्पती नवं सौख्यपीयूषं पपतुर्मिथः ॥ ८४ ॥ 8 भरतपुत्रपुण्डरीकोत्पत्तिः8 इत्थं प्रयाति समये पद्मस्वप्नेन सूचितम् । सूनुमृषभसेनाख्यमृषभश्रीरसूत सा॥ ८५ ॥ 8 पुण्डरीकगर्भस्वप्नात् पुण्डरीकाङ्गगन्धतः । पुण्डरीक इति जनैः कृताख्यो ववृधे शिशुः ॥ ८६ ॥ ४ श्रीऋषभविचिन्तनम्४ इतश्च जगतां नाथो भवपाथोनिधिं स्वयम् । प्रसरन्मोहतरङ्ग हतरङ्गं व्यचिन्तयत् ॥८७॥ हो ! आत्मन् ! विहायांऽहो मोक्षं चेद् गन्तुमिच्छसि । संसारे ध्वस्तसंसारे किं लुब्धोऽसि विचेतनः ॥८८॥ आत्मा आह- अन्येऽपि स्थिताः सन्ति । १ कोरकीकृत्य संपुटीकृत्य । २ प्रमाणय प्रमाणं कुरु । ३ अंहः पापम् । ४ समीचीनः सारः ध्वस्तो यस्मिन् । ४॥१०॥ com.000000000000000000000000000000 0000000000000000000000000000 Jain Educato Intematonal For Private & Personal use only wwadjainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy