SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्रम्. सर्गः- ५ ( उवाच श्रीपुण्डरीक:-) उवाच वाचंयम एष वाचं दन्तांशुभिश्चन्द्ररुचिं प्रपुष्णन् । प्रोद्यत्प्रभायां श्रवणे सभायां पतत्रिवर्गेष्वपि मौनवत्सु ॥१३॥ ॥१३४॥ (आचाम्लचन्द्रतप:-) महीपस्य यदस्य जातं शशाङ्करत्नं किल नित्यसेवि । आचाम्लचन्द्राख्यतपस्तरोस्तत् फलं स्फुट चाऽत्र पुराकृतस्य यतोऽत्र जीवाः कृतपूर्वकर्मदत्तं सुखं वाऽप्यऽसुखं लभन्ते। .. ततस्तपोऽनेन कृतं यथैतत् शृण्वन्तु पूर्वोऽस्य भवश्च भव्याः ॥१५॥ तथाहिं( लक्ष्मीधरनृपपूर्वभवः, लक्ष्मीपुर नगरम्-) द्वीपेऽत्र जम्बूपपदे विदेह-क्षेत्रे पवित्रैः सुकृताम्बुपुष्टैः । प्रासादपद्मः सहितं सरोवल्लक्ष्मीपुरं नाम पुरं पुराऽऽसीत् ॥१६॥ ( राजा सुरेन्द्रदत्तः- ) सदाऽपि यो निर्मलधर्मकर्मकर्ताऽपहर्ता भुवनस्य भीतिम् । सुरेन्द्रदत्तोऽर्थिजने सुरद्रुर्बभूव भूवल्लभ एष तत्र ॥१७॥ सौर्याग्निरस्मिन्निहितो विधात्रा दाहं समृहुस्तु द्यनारिवंशाः।। यशोऽस्य शश्वच्च चचार विश्वं तेषां मनो दिग्विजये तु खिन्नम् ॥१८॥ (राज्ञी चन्द्रलेखा-) भूमीपतेरस्य महाय॑सौख्यरत्नोच्चयानामिह सारकोशः। चातुर्य-सौन्दर्यविलासवासो भार्या सदाऽऽर्याऽजनि चन्द्रलेखा ॥१९॥ सदा सदाचारसरिद्वरायां मनो मनोभूसहितं यदीयम् ।। १ पक्षिवर्गेषु । २ तडागमिव । ३ अत्रैवं चित्रम्-सौर्याग्निर्नृपे, दाहस्तु अरिवंश यशस्तु चचार, अरिवंशानां मनः खिन्नम् । वस्तुतस्तु यत्र अग्नि:8 तत्रैव दाहः उचितः, एवं यो गतिकर्ता स एव खिन्नो भवति-अत्र तु नैवम् । POOROOOOOOOOOOOcoom000000000000000000Oow MOOO000oper Godhcoomboreroooooooooooooooo0000000000000000ocal ४॥१३४॥ Jain Education international For Private & Personal use only w.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy