________________
000000MOOO
॥१३३॥
O OOOm00000000000000000000000.00
वृक्षाद् वचश्चित्रकरं निशम्य ज्ञानोपयोगादवगम्य किञ्चित् ।
व तस्थौ सुरैनिर्मितरम्यरत्न-सिंहासने तत्र मुनिः स यावत् ॥६॥ तावच्च कर्पूरपरागपूरप्रभापुर-क्षीरभृताऽभ्रशोभा ।
देहाद हरन्ती तपनस्य तापं ज्योत्स्ना शनैश्च प्रससार तत्र ॥३॥ दिनेऽपि चन्द्रातप एष किं स्यात्-इत्युत्थिता ये मुनयः सुराश्च।
___ आगच्छतः श्रीधरभूमिपस्य छत्रस्वरूपं ददृशुः शशाङ्कम् ॥७॥ अहो महोष्णांशुमहोऽप्यनेन स्थिरौजसा चन्द्रमसा निरस्तम् ।
इत्थं सुरेषु प्रवदत्सु राजा सैन्यैर्युतोऽभ्येत्य यति ननाम ॥८॥ (मृगवेषो देवः, तत्प्रश्नश्च-) प्रणम्य संस्तुत्य गिरं प्रतस्ये भूपोऽथ देवो मृगवेष एषः।
खं पञ्चषक्रोशमित तदिन्दुप्रकाशितं प्रेक्ष्य विभुं बभाषे ॥९॥ प्रभो! नृपस्याऽस्य घनप्रभोऽयं करोति किं श्वेतकरोऽतिसेवाम् ।
चक्रं यथा पूर्वभवोद्भवेन पुण्यप्रभावेण तु चनेतुः ॥१०॥ उग्रं समग्रं विहितं तपः किं दानं प्रधानं किमु वा प्रदत्तम् ।
___पुरा भवेऽनेन सदा कृतैनःपराभवेनेति विभो ! वदाऽऽशु ॥११॥ 8 स्पृष्ट्वाऽस्य पादौ वचनं तु पृष्ट्वा गुरोः पुरोऽभूत् स सुरोऽथ मौनी ।
लक्ष्मीधरः पूर्वभवं स्वकीयं शुश्रुषुरस्थाद् विहितावैधानः ॥१२॥ १ सूर्यस्य । २ चन्द्रप्रकाशः । ३ महाष्णांशुः-सूर्यः, तस्य महः तेजः । ४ पु० तु 'पुरेषु' इति पाठः । ५ पञ्चभिः, षड्भिः वा क्रोशैर्मितम् । ६चन्दः । ७ चक्रवर्तिनः। ८ एनः पापम् । श्रोतुमिच्छुः । १. सावधानः ।
॥१३३॥
2000000000000000000000000000wwwwROOOOOR
Jain Educat
temahonal
For Private & Personal Use Only
Atainelibrary.org