SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्रम्. Dooooooooooooooonx जनास्यानि तदा रेजुरश्रुभिश्च स्मितांशुभिः । चन्द्राश्ममण्डलानीव पूर्णिमा स्यानिशात्यये ॥ ४१ ॥ राजा दध्यौ स लेखः क्व किं देवीह ममासने । जातप्रोषितशोकः किं दृश्यते हर्षितो जनः ॥ ४२ ॥ सर्गः-४ ततो व्यचिन्तयद्देवी क्वेदमीहक कुतूहलम् । क्व सा विलोपवैभागादहो! चित्रीयते भवः ॥ ४३ ॥ (कविद् देवः-) तं देवं नरदेवोऽथ सस्मितं विस्मितस्तदा। दिव्यं सिंहासनं त्यक्त्वा नत्वाऽपृच्छत् कुतूहलम् ॥ देवो वाचमुवाच द्राग चरित्रं शृणु भूपते ! । ईशानस्वर्गिणं विद्धि मां मनोरथभूमिपम् ॥ ४५ ॥3 ( मेघनादजनक-देवयोः संगमः, संल पश्च-) आगच्छन् स्वर्गतोऽद्राक्षमहं रत्नपुरेश्वरम् । गवाक्षे दुःखिनं लेखलेखिनं भूविलेखिनम् ॥ ४६॥ परोपकृतिलोभेन दुःखक्षाभेण तस्य च । प्रेरितः पार्श्वमेत्याऽहमपृच्छमसुखं नृपम् ॥ ४७ ॥ वैरसिंहनृपः प्रोचे प्रमृज्य निजलोचने । गीर्वाण ! शृणु मे वाणीमन्तर्वाणिगणाग्रणीः ॥ ४८ ॥ सुतो गुणयुतो देव ! भूविभूषणम द्भुतः। ययौ देशान्तरे क्वाऽपि मया प्रापि पुनः स न ॥४९॥ । अद्य द्वादश वर्षाणि पश्यतः स्वस्त्यशैः (?) सुतम् । जग्मुर्वार्तास्तु नाऽऽजग्मुस्तस्य प्रीतिप्रदा मम ॥ यतः-४ भृशायतेऽन्वहं धर्मः स्वजनश्च सुखायते । वंशः शस्तायते येन को वाञ्छति न तं सुतम् ॥५॥ देवीदत्तप्रसादोऽयं खण्डत्रितयनायकः। यः श्रूयते स मे पुत्रो नामसाम्येन भूतले ॥२२॥ व्यामोहमेघसंपूर्ण प्रावड़वद् यौवनं ययौ। शरद्वद् वार्धके हसकाशं संस्मराम्यहम् ॥५॥ सुरप्रवर ! चेल्लेखममुमाप्य ममैति सः। तस्य न्यस्य महीमंसे मुनीन् सेवे स्वमुक्तये ॥५४॥ १ भुवं विलिखति-इति । २ अन्तर्वाणि:-पण्डितः । ३ न अवगतम् । ४ हंसतुल्यं पुत्रम् । ५ तस्य अंसे स्कन्धे महीं भूमिम्-राज्यं न्यस्य मुनीन् सेवे-संयम समाश्रये। ४॥११९॥ 00000000000 00000ornmooooooooooooo २ wowwwxcmooooooo Jain Education Lemahonal For Private & Personal use only w oainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy