SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ चरित्रम् पुण्डरीक-४ सुनन्दाऽपि हृदानन्दा प्रभुसेवाप्रभावतः । बभार गर्भ सद्धर्म-मदभ्रं भव्यधीरिव ॥३३॥ ॥६॥ अन्यदा निशि संसुप्ता साऽथ देवी सुमङ्गला । चतुर्दश महास्वप्नान् दर्शाऽऽमोददायिनः ॥३४॥ , गजो-क्ष-सिंह-लक्ष्मी-लक्-चन्द्रा-ऽर्क-कलश-ध्वजाः। पद्माकर-विमाना-ऽब्धि-रत्नपुञ्जा-ऽग्नयश्च ते ॥३५॥४ स्वप्नान् स्वबुद्धावास्थाप्य सा प्रवुद्धा महासती। प्रभाते सप्रभा प्रष्टुं प्रमोदात् प्रभुमभ्यगात् ॥३६॥ ४ कराभ्यां क्रान्तहस्तीन्द्रं मृगेन्द्र सान्द्ररोचिषम् । दृष्ट्वा सो (स्वो) त्संगगं स्वप्ने सुनन्दाऽप्यत्र साऽऽययौ ॥३७॥ ४ तयोः स्वप्नान निशम्याऽऽह स्वामी कोमलया गिरा। देवि! स्वप्नप्रभावात ते चक्री पुत्रो भविष्यति ॥३८॥ ४ सुमङ्गला पुन: प्राह मत्सुतः कर्मतः कुतः। भविष्यति स चक्रेशः प्रसद्यदं वद प्रिय ! ॥३९॥ ८ जगाद जगदीशोऽथ ज्ञानत्रयपवित्रवाक । युवाभ्यां स्थिरचित्ताभ्यां देव्यो! संभ्रूयतां वचः ॥४०॥ ___ऋषभपुत्रपूर्वभवाः४ क्षेत्रे महाविदेहाख्ये नगरी पुण्डरीकिणी । वज्रसेनाऽहतस्तत्र पुत्राः पञ्चाऽभवन्नमी ॥४॥ ४ वज्रनाभस्तथा बाहुः सुबाहुः पीठसंज्ञकः। महापीठश्चेति सुता आद्यश्चयभवञ्चिरम् ॥४२॥ कियत्यपि गते काले संसाराऽसारताविदः। वज्रसेनजिनस्याऽन्ते तपस्यां ते समासदन ॥४३॥ गणेश्वरपदे प्राप्त वज्रनाभो महामुनिः। अहद्भक्त्यादिभिः स्थानस्तीर्थशत्वमुपार्जयत् ॥४४॥ बाहुबहुभ्यः साधुभ्यो भक्तं भक्तिभराद् ददत् । आर्जयच्चक्रवर्तित्वं महाभोगविभूतिदम् ॥४५॥ १ अदभ्रम्-संपूर्णम् । Joooooxxx xxx 000000000000000000000000000000 0000000000 Jain Educatie international For Private & Personal use only ww Cainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy