________________
पुण्डरीक
॥१०॥
OOOOOOOOO0000xC0000000000000000000000000000000000000
वैरसिंहोऽत्र राजाऽपि नैव यः कुवलप्रियः । जगन्मित्रोऽपि सूरोऽपि नैव यः विश्वतापनः ॥ १५ ॥
चरित्रम् (लीलावती राज्ञी-) शीललीलावती तस्य नाम्ना लीलावती प्रिया । अक्षीणसत्यपीयूषों यस्या आस्यामृतद्युतिः ॥ १६ ॥ सर्गः-४ . (पुत्रो मेघनादः-) पूर्वपुण्यस्तयोर्दत्तः पुत्रः सुत्रामविक्रमः । मेघनाद इति ख्यात्या ख्यातो ध्यातो जगजनैः ॥ १७ ॥ बाल्य क्रमेण तल्याज मौग्ध्यं सर्वत एव यः । यौवनं यः क्रमात् प्राप कलाः कीर्तिं च सर्वतः १८ ॥
(मेघनाददानन्यसनम्-) साक्षिणं शुद्धपुण्यं यः कृत्वा दत्त्वा निजं करम् । मैत्र्यं दानाख्यमित्रेण स्थिरं जग्राह साग्रहः ॥ १९॥ दत्वाऽथिभ्यः सुवर्ण यः संवर्ण वादमग्रहीत्। विधाप्य पुण्यप्रासादॉन् प्रसादं पुण्यतोऽनयत् ॥ २० ॥ स दानं च सदानन्दकरं धीमान् सदा ददौ । यथा यथा तथाऽभ्येयुः कलापात्राण्यनन्तशः ॥ २१ ॥ महादानं ददानोऽयं वर्धमानमथो दिने। अष्टादश स्वर्णकोटीकोटीरः प्रदत्तवान् ॥ २२ ॥
(दानव्यसनभीतो राजा जगौ-) दानव्यसनतो भीतो राजा रहसि तं जंगी। वत्स! स्वच्छतया भोगः कार्यों नौदार्यमद्भुतम् ॥ २३ ॥
(मेघनादप्रवास:-) निशम्येति महादानी महामानी महानिशि । निस्ससार सदाचारसार: सारभृतो भृशम् ॥ २४ ॥
(प्रीष्मः-) १ राजा चन्द्रो हि कुवलं कुवलयम्-चन्द्रविकासि पद्मम्-तस्य प्रियः । अयं वैरसिंहो राजा-नृपः सन्नपि नैव कुबलानां निन्दितबलानां प्रियः-तेषां नाशकत्वात्।४ ४ पुनश्च अयं वैरसिंहो नृपः जगन्मित्रः, सूरोऽपि सन् नैव विश्वतापनः, जगन्मित्रः-सूरः-भानुहि विश्वतापनः प्रतीतः इति विरोध-परिहारी । २ अक्षीणं सत्य ४ पीयूषम्-अमृतं यस्यां सा । ३ यः शुद्धपुण्यं साक्षि विधाय, निजं हस्तं दत्त्वा दाननाम्ना मित्रेण स्थिरं मित्रत्वं संपादितवान्-दानशूर आसीद्-इति तत्त्वम्।। ४ शोभना वर्णा यस्मिन्-यशोवादम्-इत्यर्थः । ५ पुण्यमहालयान् । ६ कलापात्राणि-कलानिपुणाः । ७ कोटीरो-मुकुटः । ८ कथयामास ।
॥१०॥
SOOOOODOORDINorwooanooomn0000000000
Jain Education thematonal
For Private & Personal use only
www.jainelibrary.org