SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आव ० हारि० टीप्पणं ॥ १४ ॥ 'तच्चाग्नावुत्पन्ने सञ्जात' मिति ( १२९ - १० ), कृष्युपकारिकुश्यादीनामग्निमन्तरेणाभावादिति भावः । सणः सप्तदशो यस्य तत्सणसप्तदशं धान्यमित्युक्तं तच्चेदं - “ सालि १ जव २ वीहि ३ कोद्दव ४ रालय ५ तिल ६ मुग्ग ७ मास ८ वल्ल९चणा १० | तुवरि ११ मसूर १२ कुलत्था १३ गोहुम १४ निष्फाव १५ अयसि १६ सणा १७ ॥ १ ॥ प्रथमवरवरिका समाप्ता । द्वितीयवरवरिकायां प्रायः सुगमत्वाद्वृत्तिकृता बह्वचो गाथा न व्याख्याताः अतस्ता यथा वैषम्यं व्याख्यायन्ते - तत्र छद्मस्थकालोपलक्षितं यत्तपः कर्म्मद्वारं तद्रूपो योऽवयवस्तद्व्याख्यावसरे 'वाससहस्सं' गाहा 'तिदुएक्कग' गाहा 'तहबारस' गाहा ( १० १३८ ) व्याख्या - प्रथमतीर्थकृतः छद्मस्थकालो वर्षसहस्रं १ तथा वक्ष्यमाणवर्षशब्दसम्बन्धाद् द्वादश वर्षाणि २ चतुर्दश वर्षाणि ३ अष्टादश वर्षाणि ४ विंशतिर्वर्षाणि ५ मासाः पटू ६ अग्रेऽपि मासशब्दसम्बन्धान्नव मासाः ७ त्रयो मासाः ८ चत्वारो मासाः ९ त्रयो मासाः १० द्वौ मासौ ११ एको मासः १२ द्वौ मासौ १३ । 'तिदुएक्कग सोलसगं ति अनन्तरवक्ष्यमाणवर्षशब्दस्येह सम्बन्धात्रीणि वर्षाणि १४ द्वे वर्षे १५ एकं वर्ष १६ षोडश वर्षाणि १७ त्रीणि वर्षाणि १८ अहोरात्रमेकम् १९ एकादश मासाः २० नव मासाः २१ चतुःपञ्चाशद्दिनानि २२ चतुरशीतिर्द्दिनानि २३ तथेति समुच्चये द्वादश वर्षाणि २४, इह च महावीरस्य सातिरेकाणि द्वादश वर्षाणि छद्मस्थकालः “बारस चेव य वासा मासा छच्चेव अद्धमासो अ । वीरवरस्स भगवओ एसो छउमत्थपरियाओ ॥ १ ॥ इतीहैव वक्ष्यमाणत्वात् केवलमिहाल्पत्वेन तदविवक्षेति लक्ष्यते । तदेवमिदं जिनानां ऋषभादिमहावीरपर्यवसानानां यथाक्रमं छद्मस्थकालपरिमाणं विज्ञेयं । एवं च छद्मस्थकालमानमभिधाय तपः कर्म्मस्वरूपप्रतिपादनायाह - ' उग्गं चेत्यादि ( १३८ - १६ ), सर्वेषामपि तीर्थकृतां Jain Education onal For Private & Personal Use Only प्रथमवरवरिकासमा - तिः जिनतपःकर्मादि ॥ १४ ॥ www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy