________________
Jain Educati
त्यदोषः, शेषं प्राग्वत् । तथा "अहमवि वंदावेमि चेइयाई " ति अहमपि तान् यथादृष्टसाधून् वंदापयामि, चैत्यानि वन्दा - पितवानित्यर्थः, वर्त्तमानतानिर्देशः प्राग्वद्, अमुत्र नगरादौ युष्मत्कृते मया चैत्यानि वन्दितानि तानि यूयं वन्दध्वमित्येवं ते मया चैत्यानि वन्दापिता इति भावार्थ:, एवं शिष्येणोक्ते आचार्यः प्रत्युत्तरयति - यथा मस्तकेन वन्दे तान् ये मम वार्त्तासंपृच्छनादि कुर्वन्तीतिभावः ॥ अथ वस्त्रादिनिवेदनद्वारेणात्मानं गुरूणां निवेदयति चतुर्थक्षामणकसूत्रेण, तच्चेदं - 'इच्छामि खमासमणो ! उवडिओऽहं तुम्भण्हं संतियं अहाकप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अक्खरं वा पयं वा गाहं वा सिलोगं वा सिलोगद्धं वा अहं वा हेउं वा पसिणं वा वागरणं वा तुम्भेहिं चियत्तेण दिनं मए अविणएण पडिच्छियं तस्स मिच्छामि दुक्कडं ति ( ७९३ ), व्याख्या - इच्छामि क्षमाश्रमण ! वस्त्रादिनिवेदनद्वारेणात्मानं निवेदयितुमितिवाक्यशेषः, न केवलं इच्छाम्येव किन्तु अभ्युत्थितोऽस्म्यात्मनि| वेदनायेति शेषः, यत्किमध्यस्मत्परिभोग्यमस्ति तत्सर्वं 'तुम्भण्हं संतियं'ति युष्माकं सत्कं युष्मदीयमित्यर्थः किंभूतं तद् ? इत्याह- 'अहाकप्पं ति कल्पानतिक्रान्तं स्थविरकल्पोचितं कल्पनीयं चेत्यर्थः, किं पुनस्तदित्याह - 'वस्त्रं वेत्यादि प्रतीतमेव, नवरं पतग्रहः पात्रं पादप्रोञ्छनकं - रजोहरणं 'अहं वत्ति अर्थ:-सूत्राभिधेयः प्राकृतत्वान्नपुंसकनिर्देशः, प्रश्नः - पण्डिताभिमानी परो माननिग्रहाय गुरुर्वा संशये सति यत्प्रश्न्यते तत्रैव च यदुत्तरं तद्व्याकरणं, वाशब्दाः समुच्चयार्थाः एवं तावद्यत्किमप्यस्मत्परिभोग्यं तत्सर्वं युष्मदीयमित्येवं वस्त्रादिनिवेदनद्वारेणात्मानं गुरूणां निवेद्य साम्प्रतं युष्माभिरेवेदं वस्त्रादि मम दत्तमित्या वेदयंस्तद्रहणसंभविनमविनयं क्षमयन्निदमाह - 'तुम्भेही'त्यादि, युष्माभिर्यत् प्रीत्या
ational
For Private & Personal Use Only
www.jainelibrary.org