SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Jain Educat नाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेण भे दिवसो पोसहो पक्खो वहतो अन्नो य भे कल्लाणेणं पज्जुवट्टिओ सिरसा मणसा मत्थएण वंदामि" व्याख्या - तत्र इच्छामि -अभिलषामि वक्ष्यमाणं वस्तु हे क्षमाश्रमण !, कुतोऽपि कारणादप्रियमपि किञ्चिदिष्यत इत्यत आह-प्रियं - अभिमतं चशब्दः समुच्चये मे-मम, किं तदिच्छामि प्रियं चेत्याह-यद् भे-भवतां हृष्टानां - रोगरहितानां तुष्टानां तोषवतां अथवेदं हर्षातिरेकप्रतिपादनार्थमेकार्थिकपदद्वयोपादानं अल्पातङ्कानां - अल्पशब्दस्याभाववचनत्वात्सद्योघातिरोगवर्जितानां सामान्येन वा नीरोगाणां स्तोकरोगाणां वा सर्वथा निरुजत्वस्यासंभवात् “अभग्गजोगाणं" ति अभग्नसंयमयोगानां 'सुसीलाणं सुइयाणं ति व्यक्तं, साचार्योपाध्यायानां - अनुयोगाद्याचार्योपाध्यायोपेतानां ज्ञानादिभिरात्मानं भावयतां बहुशुभेन - अत्यर्थश्रेयसा ईषदूनशुभेन वा सर्वस्य शुभस्यासंभवात् 'भे' इति भो भगवन्तः अथवा भे इति भवतां भावयतामित्येकेनैव विशेषणेन सम्बन्धनीयं, दिवसो-दिनं, किंविशिष्टः ? - पौषधो-धर्म्मपोषकः तथा पक्षः - अर्द्धमासरूपो व्यतिक्रान्तः - अतिलङ्घितः अन्यश्च पक्ष इति वर्त्तते भे- भवतां कल्याणेन-शुभेन युक्त इति गम्यते पर्युपस्थितः - प्रक्रान्त इत्येवं मङ्गलवचनमभिधाय गुरून् प्रणमन्नाह - शिरसा मनसेति व्यक्तं, चशब्दश्चेह समुच्चयार्थो द्रष्टव्यः 'मत्थएण वंदामि'त्ति नमस्कारवचनमव्युत्पन्नं समयप्रसिद्धं अतः शिरसेत्यभिधायापि यन्मस्तकेनेत्युक्तं तददुष्टमेव, यथैषां बलीवर्दानां एष गोस्वामीति गोस्वामिशब्दस्य स्वामिपर्यायतया लोके रूढिरिति ॥ अत्राचार्य आह- 'तुभेहिं समं' (७९३ - ४ ) ति, युष्माभिः सार्द्धं सर्वमेतत्सम्पन्नमित्यर्थः । अथ चैत्यवन्दापनं साधुवन्दापनं च निवेदयितुकामा भणन्ति - 'इच्छामि खमासमणो ! पुत्रिं चेइआई वंदित्ता णमंसित्ता national For Private & Personal Use Only www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy