________________
ञ्चाशदधिके द्वे शते प्रदेशानां स्थाप्येते २५६, अस्य चैतावन्मानस्य राशेर्घनीकृतस्य यदागतं फलं तावत्प्रमाणैः कर्मप्रदेशैः किलैते जीवप्रदेशा आवेष्टिताः, बहुत्वप्रदर्शनमात्रं चेदं, एकैकस्यापि जीवप्रदेशस्यानन्तानन्तकर्मवर्गणावेष्टितत्वात् , तत्रास्य कल्पितजीवप्रदेशराशेर्घनीकरणार्थ करणकारिकामाह-कृत्वा पूर्व विधान'मित्यादि (५९९-२), अस्याश्चार्थ:'स्थाप्योऽन्तघनोऽन्त्यकृतिः स्थानाधिक्यं त्रिपूर्वगुणिता च । आद्यकृतिरन्त्यगुणिता त्रिगुणा च धनस्तथाऽऽद्यस्य ॥१॥ एतत्कारिकानुसारतो गणितविधिज्ञेन विज्ञेयः, तत्र 'स्थाप्योऽन्त्यधन'इति अन्त्योऽत्र द्विकस्तस्य धनोऽष्टौ ८ स्थाप्यन्ते, 'अन्त्यकृति'रिति अन्त्यस्य द्विकस्य कृतिः-वर्गश्चत्वारः, 'त्रिपूर्वगुणिता चेति त्रिभिः पूर्वेण च पञ्चकेन गुण्यते जाता षष्टिः 'स्थानाधिक्य मिति सा षष्टिः पूर्वस्थापिताष्टकस्याधस्तात्स्थानाधिक्येन स्थाप्यते तद्यथा 'आद्यकृति'रिति द्विकापेक्षया आद्यः पञ्चकस्तस्य कृतिः पञ्चविंशतिः, 'अन्त्यगुणिते'ति एषा कृतिरन्त्येन द्विकेन गुणिता जाता पश्चाशत् 'त्रिगुणा चेति सा त्रिगुणिता जातं सार्द्धशतं, तच्च स्थानाधिक्येन स्थाप्यते ८५. 'घनस्तथाद्यस्येति आद्यः पञ्चकस्तस्य घनः पञ्चविंशत्यधिकं शतं तदपि स्थानाधिक्येन स्थाप्यते तद्यथा-८५२५ एता- ६ वती च प्रक्रिया पूर्वगणितकारसंज्ञया पूर्वविधानमित्युच्यते अत एतावता कृत्वा पूर्व विधानं पदयोरित्येतद्व्याख्यातमवसेयं, स्थाप्योऽन्तघनो इत्यादि कारिका पुनरादित आव
य॑ते,तत्र च निर्युक्ते राशिरन्त्य'मितिवचनादिदानीं पञ्चविंशतेरन्त्यसंज्ञा तस्याश्च घनः किल मीलित एवास्तेऽतः स्थाप्योऽन्त्यघन इत्युल्लञ्चयान्त्यकृतिः क्रियते, तत्र जातानि पञ्चविंशत्यधिकानि षट् शतानि, त्रिगुणिते जातानि पश्चसप्तत्यधिकानि अष्टादश शतानि, पञ्चविंशतेः पूर्वः षट्ठस्तेन गुणिते जातानि सार्द्धशतद्वयाधिकानि एकादशसहस्राणि स्थानाधिक्येन स्थाप्यन्ते यथा
Jain Education
For Privale & Personal use only
Mirw.jainelibrary.org