________________
-%
आव० हारिक टीप्पणं
दिभेदाः
ACCORRECCA
करोति, इत्याद्यन्यदपि सामाचारीवितथाचरणं देशपार्श्वस्थत्वकारणं द्रष्टव्यमिति गाथाद्वयार्थः ॥ यदुक्तं 'गुरुवचनं प्रति
पार्श्वस्थावलति' तत्सविशेष विवरीपुराह-'गोणो'गाहा (५१७-१७), यथा गलिगौः स्वामिना प्रेरितो दुःशीलतया वलन्व्यावृत्त्य सम्मुखीभूय भनक्ति समिलां सोऽप्यवसन्न एवमेव गुरुवचनमकुर्वन् वलति-सम्मुखीभवतीत्येव चतदृष्टान्तेन साम्यं, करोति वा तथापि “उस्सोढुं"ति त्वत्समीपे किलाहमेवैकस्तिष्ठामि येन पुनः पुनर्मामेवादिशसीत्याद्यसूयावाक्यमुक्त्वा करोतीत्यभिप्राय इति गाथार्थः॥ इदानी कुशीलस्वरूपमाह-'तिविहोगाहा (५१७-१८), ज्ञानदर्शनचारित्रविषयत्वेन त्रिविधः कुशीलो भवति, शेष सुगममिति गाथार्थः । कथं ज्ञानादिविषयत्वेन त्रिविधः कुशीलो भवतीत्याह'नाणे'गाहा, ज्ञानाचार-कालादिकं यो विराधयति स ज्ञाने-ज्ञानविषये कुशील इति शेषः, इदमुक्तं भवति-"काले विणये बहुमाणे उवहाणे तह अनिण्हवणे । वंजणअत्थतदुभए अहविहो नाणमायारो॥१॥” इत्यमुमष्टविधं ज्ञानाचारं यो विराधयति-न सम्यगनुतिष्ठति स ज्ञानकुशीलः, 'निस्संकिअनिकंखिअनिवित्तिगिच्छाअमूढदिट्ठी अ। उवव्हथिरीकरणे वच्छ लपभावणे अठ्ठ ॥ १॥ अमुं पुनरष्टप्रकारं दर्शनाचारं विराधयति स दर्शने-दर्शनविषये कुशीलः, चरणकुशीलः पुनरयं-12 वक्ष्यमाणस्वरूप इति गाथार्थः। 'कोउगाहा (५१८-१), कौतुकं भूतिकर्म प्रश्नाप्रश्नं निमित्तं आजीवं कल्ककुरुकालक्षणां विद्यां मन्त्रादींश्च य उपजीवति, सर्वत्र द्वितीया द्रष्टव्या, स एवम्भूतश्चरणकुशीलो ज्ञातव्य इति गाथार्थः, तत्र कौतुकं किम् ? इत्याह-'सोहग्गाई'गाहा (५१८-२), सौभाग्यनिमित्तमपत्यादिनिमित्तं च योषिदादीनां त्रिकचतुष्कचत्वरादिषु स्नानादि यक्रियते तत्कौतुकं भणितं तत्कुर्वन्नसौ कुशीलो भवतीति द्रष्टव्यं, एवमुत्तरत्रापि, भूतिकर्मस्वरूपमाह
CCCCCANCREASACREAL
Jain Educationa
tional
For Private & Personal Use Only