SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥ ६४ ॥ Jain Education न्धिकालग्रहणे तु सर्वाद्धापिण्डित इति किमुक्तं भवति ? - सर्वेणापि साद्यपर्यवसितेन कालेन यत्सुखं सिद्धः प्रतिसमयमनुभवति तद् यद्येकत्र संपिण्ड्यासत्कल्पनया राशिः क्रियत इति, स च राशिरनन्तवर्गापवर्त्तित इत्यनन्तैर्वर्गमूलैस्तावदपवर्त्तितो यावत् सर्वाद्धलक्षणगुणकारेण यदधिकं जातमासीत् तस्य सर्वस्याप्यपवर्त्तनेन समीभूतः सिद्धत्वाद्यसमयमात्रभाविसुखरूपतां प्राप्त इत्यर्थः, एतावन्मात्रोऽपि सर्वाकाशे न माति सर्वस्तु दूरापास्त एवेति ज्ञापनार्थं च पिण्डयित्वा पुनरपवर्त्तनं सुखराशेरिति, एतदेव भावयति – 'इह किल विशिष्टे' त्यादि (४४६ - १७), एतदुक्तं भवति - सर्वस्यापि सुखशब्दवाच्यस्याहादरूपस्य सुखस्य सिद्धसुखमेव परमप्रकर्षप्राप्तं भवति, तच्च केवलिप्रज्ञया परिच्छिद्यमानं यावतोऽंशान् प्रयच्छति तावतोऽंशाः सर्वलोकालोकाकाशप्रदेशेभ्योऽप्यादिशब्दात् तत्पर्यायेभ्योऽपि भूयांस इत्यनया किल कल्पनाविव - क्षयोक्तं- 'सिद्धाण सुहो रासी सवागासे न माइज्जेत्यादि, अन्यथा यद्येवं विवक्षामनपेक्ष्य मुख्यरूपतयैव सिद्धसुखं | सर्वाकाशे न मातीत्युच्येत तदा कथमिति सूरयोऽभिदधतीति सम्बन्धः, किं तदित्याह-नियते देशे -क्रोशषड्भागलक्षणे तेषां सिद्धानां अवस्थितिरिति, अयमभिप्रायो - यद्युक्त कल्पनाव्यतिरेकेण मुख्यवृत्त्यैव सिद्धस्य सुखराशिः सर्वाकाशे न माती - त्युच्येत तदा धर्मिणमन्तरेण धर्म्मस्याभावात् सिद्धोऽपि सर्वाकाशे न मातीति वक्तुं युक्तं स्यात् तत्कथं पूर्वसूरयः क्रोशषड्भाग एव सिद्धावस्थानमभिदध्युः तस्माद्यथोक्तविवक्षयैव "सिद्धस्स सुहो रासी”त्यादि अभिहितमिति स्थितं, न चैतन्मया स्वमनीषिकयोच्यत इति दर्शयति- 'तथा चैत' दित्यादि ( ४४६ - २१ ), विद्यन्ते - ज्ञायन्ते जीवादय पदार्था अनेनेति व्युत्पत्त्या वेदशब्देनेह सिद्धान्तोऽभिधीयते, ततश्च गौतमादिमहर्षिप्रणीते सिद्धान्तेऽपि एतत्संवादि - मदीयव्याख्यान For Private & Personal Use Only कर्मक्षयस्त्रिद्धाधिकारः ॥ ६४ ॥ www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy