________________
व्योमतो मूर्धा, गङ्गाधारा मया धृता ॥ २६ ॥ ततः पण्मुखमानत्याऽऽगत्य चोजयिनी पुरीम् । भवद्भयो धूर्त्तराजेभ्यः, क्षेमेण मिलितोऽधुना ॥ २७ ॥ इदं चेद्वित्थ सत्यं तन्मां मानयत हेतुभिः । अथालीकं तदाऽमीभ्यः, सर्वेभ्यो दत्त भोजनम् ॥ २८ ॥ कण्डरीकस्ततोऽवादीत्त्वामसत्यीकरोति कः?। जानानो हि पुराणं च, श्रीरामायणभारते ॥ २९ ॥ यत् त्वयाऽवाद्यहं सेभः, कथं कुण्ड्याममान्तमाम् ? । तत्प्रत्ययाय विप्राणामत्रार्थे शृणु जल्पितम् ॥ ३०॥ -विधातुर्वदनाद्विप्राः, क्षत्रिया बाहुयुग्मतः । ऊरुयुगलतो वैश्याः, पयां शूद्राश्च निर्ययुः ॥ ३१ ॥ यद्येतावान्ममौ लोको, ब्रह्मणो जठरान्तरे । कमण्डलौ भवांस्तत्किं, न मातीभसमन्वितः? ॥३२ ॥ अन्यच यस्य धावन्तौ, ब्रह्मविष्णू उपर्यधः। दिव्यवर्षसहस्रेणाध्याप्तौ पारं नहि क्वचित् ॥३३॥ महत्प्रमाणं तल्लिङ्गमुमायोनौ यथा ममौ । तथा त्वां सगजं कुण्ड्यां, प्रविष्टं कोऽत्र दूषयेत् ? ॥३४॥ युग्मम् ॥ अन्यच कीचकशतोत्पत्तिर्या व्यासभाषिता। प्रसिद्धा भारते शास्त्रे, तामप्येतर्हि संशृणु ॥ ३५ ॥ विराटभूपतेरग्रमहिषी पुत्रकाम्यया । ऋषि गाङ्गलिनामानमारराधान्यदाऽऽश्रमे ॥३६॥ साधयित्वा चरुं सोऽपि, दत्वा तामिदमूचिवान् । -अन्तःकुडङ्गं भुक्तेऽस्मिन, सुतानां भावि ते शतम् ॥३७॥ ततो गत्वा कुडङ्गान्तर्बुभुजे तमसौ चरुम् । तत्रस्थो गाङ्गलिरपि, तप्यते स्म तपोऽधिकम् ॥ ३८ ॥ सरस्यप्सरसस्तत्र, स्वान्तीर्वासोविवार्जताः । ता निरीक्ष्य ऋपिः स्मेरस्मरवाणैरविध्यत ॥३९॥ कामक्षोभादस्य शुक्रबिन्दुर्यः कीचकेऽपतत् । तस्मादाद्यः कीचकोऽभून्महावीर्यवदुत्तमः ॥ ४०॥ पश्यतोऽप्सरसस्तस्य, गलिताः शुक्रबिन्दवः । नाल्यां ये
-CACANCIENCONCREAMCANCCORE
Jain Education
a
l
For Privale & Personal Use Only
Lainelibrary.org