________________
चारित्रं हि द्विधा । द्रव्यचारित्रं भावचारित्रं चेति । यत्र पूर्वोपार्जितचारित्रमोहनीयबलेन यद्यपि द्रव्यतश्चारित्रं नोपलभ्यते तथापि तत्र चारित्रविषये प्रचुररुचिप्रकर्षदर्शनाद् भावचारित्रं लभ्यत एव, भावचारित्राभावेन दर्शनशुद्धेरनुपलम्भात् । | शुष्काध्यात्मवादिभिश्चेत् स्वकीय आत्मा भावचारित्रपात्रं मन्यते तर्हि मन्यतां नाम । खयमात्मानमीश्वरं मन्यमाना न तथा लोकैः |
श्रद्धीयन्ते । आत्मपरिणतिर्भावचारित्राधिवासिता चेत्संभाव्यते तत् । परमिदमत्रावधेयं यदुत त एवागमसंमत्या भावचारित्राधिकारिणो द्रये खलु शक्यमनुष्ठानं सादरमाचरेयुरशक्यानुष्ठानाय चान्तरात्मना महात्मन आश्रित्य तदाश्रितां पद्धतिमनुसतुं सम्यक्तया प्रयतेरन् ।।
एतस्मिन्हि नियमे विचार्यमाणे न ते भावचारित्राधिकारिणः संभाव्येरन् तन्मतेन हि असाध्यमानमेव तत्त्वज्ञानं वयं सिध्येत् । नहि दुह्यमानो प्यनडवान् कथमपि पयः सूते । एतेन खलु दोग्धैव मूढः प्रतीयते । | यत्खलु दृष्टान्तितो भरतचक्रवर्ती क्रियाननुष्ठानविषये, तदप्यसंगतम् । यद्यपि तस्मिञ्जन्मनि न साधितं समधिकं तेन क्रियानुष्ठानं तथापि जन्मान्तरीयतपःप्रकर्षसभावेन केवलज्ञानस्य सुसाधता तस्य केन निवार्येत ? अपि च देवपूजा गुरुसेवाऽऽ-त्मनिन्दासंघमत्यादिकस्तदीयो गुणगणो नाद्यापि विस्मरणसरणिमारोहति बुद्धिमताम् । न च वाच्यं नासीत्तस्य तथाभूतमुत्कृष्टं तप इति, तस्य हि । प्राक्तनजन्मतपःप्रकर्षसद्भावेन तज्जन्मनि केवलज्ञानप्राप्तौ तथाविधोत्कृष्टतपसोऽनावश्यकत्वादिति । यत् किल तेन चतुर्दशलक्षपर्वाणि यावत् तादृशं गहनं तपस्तप्तं, पञ्चशत्य अनगाराणां वैयावृत्त्यं च साधितं तत्खलु कथं नाम विस्मर्तुं शक्येत ? ___ अन्यच्चात्र विषयेयः श्रेणिकोऽपि निदर्श्यते तैस्तदपि मन्दम् । तस्यहि भवान्तरीयनिकाचितनिदानस्य विद्यमानत्वेन व्रतस्याशक्यत्वात् कर्तुं । पण्डितमन्यानां दृष्टिमहत्तमे श्रीमहावीरस्वामिनि कथं न रमते येन सार्द्धद्वादशवर्षपर्यन्तं विवमं तपश्चरितम् , यत् तदपेक्षयातिलघौ
Hamn Education
lionail
For Privale & Personal Use Only
Net
ainelibrary.org