SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ सम्यक ॥२॥ तदनु स्वल्पेतरे सूरिवराः संख्यातिगान् भिन्नभिन्नाननुयोगपोषकान् ग्रंथान् विनिर्माय भूपीठमुपचक्रुः । तदुपकृतिसुरशाखिशाखाभवभव्यामलफलमिदं सकलसूरिपुंगवविद्वन्मौलिमंडनश्रीमत्संघतिलकसूरिकृतोऽयं धर्मकथानुयोगरूपसम्यक्त्वदाक्यप्रस्तुतो ग्रंथः॥ तैरुदाराशयैरनुयोगचतुष्टयं पृथक्कृत्य यद्यपि सुगमीकृतः सिद्धान्तस्य दुर्गमः पन्थास्तथापि तमपि हृदयस्थलाकुरितगुरुसमाराधना एव धीधना अधिगतसारासाराः सुतरां समवगाढुं पारयन्ति नेतरे । न खलु गुरुजनादनधिगतस्वकर्ममर्मा साहसरसिकः कोऽपि दुरधिगमावारपाराद् दुःसंतारादकूपाराद् रत्नमेकमपि लब्धं प्रगल्भते किन्तु तत्स्थाने कर्करमेव । इत्येतद् ग्रन्थकारैरपि विशदीकृतं शिक्षारूपेण ग्रन्थसमाप्तौ । तद् यथा "इय भाविऊण तत्तं गुरुआणाराहणे कुणह जत्तं । जेण सिवसुक्खबीयं दंसणसुद्धिं धुवं लहह ॥” इति । अत्र केचन शुष्काध्यात्मवादिन खात्मानमेव सम्यक्त्वभाजनं मन्यमानाः पण्डितंमन्याः प्रलपन्तिसम्यक्त्वशुद्धयैव कार्य सिद्ध्यति किं क्रियया? यतः"दसण भट्ठो इत्यादि इति स्वकीयकल्पनास्थिरीकरणे प्रमाणमुद्घोष्य पुनः प्रजल्पन्ति भरतनरेश्वरेण का नाम क्रिया साधिता? आख्यायते हि स चक्रवर्ती आरीसाभवनेऽवाप केवलज्ञानम् । अथ च किं नाम तपस्तप्तं श्रेणिकमहाराजेन ? ते न हि आगामिन्यां जिनचतुर्विंशतौ प्रथमीभवितुं समुपार्जितानि महिमोर्जितानि कर्माणीति चेच्छ्रयतां तावत् समाधीयतेऽयं विषयः CRECACANCROCER-CRACTEGORIESCRC ॥२ ॥ Jain Education clonal For Privale & Personal Use Only M ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy