SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ HTRANSARALtry सचानुयोगो द्रव्यगणितांगादिविकल्पैर्विविच्यमानश्चतुर्धाभवति । तं चतुर्विधमप्यनुयोगं खप्रज्ञाविरमायितसुरसूरयः प्राक्तनाः सूरयः प्रतिशास्त्रं प्रत्यालापकं प्रत्युद्देशकं प्रतिवाक्यं चालयंतिस्म, अयं च मार्गः श्रीमदार्यरक्षितसूरियावद्वहमानोऽभूत् , तैरेव गुणभूरिभिः सूरिभिः | विन्ध्यनामानं खविनेयमनुकम्पमानरैनुयोगाः पृथक्कृताः * *" तत्रगच्छेच चखारः, प्राज्ञा मुनिमतल्लिकाः “ दुर्बलः पुष्प मित्रोऽथ बिन्ध्याख्यः फल्गुरक्षितः॥ “गोष्टामहिलनामाच, जितौशनसचेतनः; “ तेषां विन्ध्योऽथ मेधावी, गुरून्विज्ञपयत्यथ ॥ "महत्यामनुयोगस्य, मंडल्यां पाठघोषतः; "स्खलति श्रुतपाठो मे, पृथग् मे कभ्यतां ततः॥ त्रि. वि. "सूरिराह खयमहं, व्याख्यामि भवतः पुरः; "व्याख्यानमंडली तूलंघयामि महतीं कथम् ॥ " तस्मात्ते वाचनाचार्यो, दुर्बलः पुष्पमित्रकः; “ महामतिरुपाध्यायोऽधीष्व शीघ्रं तदप्रतः ।। " एवं कृते दिनैः कैश्चित्सविन्ध्योऽध्यापको गुरून्, “ कृताजलिरदोऽवादीत , प्रभो शृणुत मद्वचः ॥ " अहं वाचनया व्यग्रः, खाधीतं विस्मरामि यत् ; “गुणने भंगपातेन, तत् खिन्नः किंकरोम्यहं ! ॥ " यदा खकगृहे प्रैषि, पूज्यैर्गुणनवारणात् , “ तत्कृतात् स्खलितं किंचित , तदाधीतं पुरापि यत् ।। " यद्यतः परमेतस्य, वाचना दापयिष्यथ, “ततो मे नवमं पूर्व, विस्मरिष्यत्यसंशयं ॥ " श्रुत्वत्यचिंतयत् सूरिरीदृग्मेधानिधिर्यदि; “विस्मरत्यागमं तर्हि, कोऽन्यस्तं धारयिष्यति ॥ " ततश्चतुर्विधः कार्योऽनुयोगोऽतः परं मया । " ततोझोपानमूलाख्यग्रंथच्छेदकृतागमः॥ " अयं चरणकरणाऽनुयोगः परिकीर्तितः " उत्तराध्ययनाद्यस्तु, सम्यग्धर्मकथापरः ॥ "सूर्यप्रज्ञप्तिमुख्यस्तु, गणितस्य निगद्यते;" द्रव्यस्य दृष्टिवादोऽनुयोगाश्चत्वार ईदृशः ॥ विन्ध्यार्थमिति सूत्रस्य, व्यवस्था सूरिभिः कृता; " पुरा चैकत्र सूत्रेभूदनुयोगचतुष्टयम् ॥ (वर्धमानसूरिः) Jam Education For Privale & Personal Use Only Twijaineibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy