SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सम्य० ACHECENCESCC ADSAMROSAROKHAROSAROKAR |श्रेणिकनरेश्वर एव पतितेति न विद्मः किमेतच्चेष्टितं तेषाम् । एकोऽप्यागमानां पन्थाः सद्भिः सरलत्वेन दृश्यमानोऽपि कुटिलदृष्टिभिः कौटिल्येनैव प्रतीयते । कस्य नाम तत्र दोषः। । अयमत्र निष्कर्षः । सत्तत्त्वरत्नपूर्णानां शास्त्रनिधीनां कुश्चिकाः गुरुवरकरतलगता एव ज्ञेयाः । न चान्तरा ताः कोऽपि लब्धं प्रभवति सातत्त्वरत्नानि तेभ्य इति गुरव आराधनीया एव यतः विडंब्यमानं रागादि तस्करैर्दुःखपीडितम् । भावैश्वर्य्यपरिभ्रष्टं खकुटुंबवियोजितम् ॥ लोकभौतं भवग्रामे वीक्ष्य भिक्षाचरोपमम् । तन्मात्रेणैव संतुष्टं कर्मोन्मादेन विवलम् ॥ सद्धर्मगुरुरेवान जायते करुणापरः । अमुष्माद्दुःखसंतानात्कथमेष वियोक्ष्यते ॥ ततो जिनमहावैद्योपदेशादवधारयति सद्धर्मगुरुस्तत्रोपायं । ततो धूर्ततस्करेष्विव सुप्तेषुरागादिषुक्षयोपशममुपगतेषु प्रज्वाल यति जीवस्खकीयशिवमंदिरे सज्ज्ञानप्रदीपम् । पाययति सम्यग्दर्शनामलजलम् । समर्पयति चारित्रवज्रदण्डम् । ततोऽयं जीवलोक४ सज्ज्ञानप्रदीपोद्योतितस्वरूपः शिवमंदिरे महाप्रभावः सम्यगदर्शनसलिलपाननष्टकर्मोन्मादो गृहीतचारित्रदंडभासुरो गुरुवचनेनैव निदादलयति सस्पर्धमाहूय महामोहादिधूर्ततस्करगणम् ।। | तंच निर्दलयतोऽस्यजीवलोकस्य विशालीभवति कुशलाशयः क्षीयंते प्राचीनकाणि, न बध्यते नूतनानि, विलीयते दुश्चरितानुबन्धः ४ समुल्लसति जीववीयं । निर्मलीभवत्यात्मा, परिणमति गाढमप्रमादो, निवर्तन्ते मिथ्याविकल्पाः, स्थिरीभवतिसमाधिरत्नम्, प्रहीयते-13 भवसंतानः, ततः प्रविघटयत्येष जीवलोकश्चित्तापवरकावरणकपाटम् । ततः प्रादुर्भवति खाभाविकगुणकुटुंबकम् , विस्फुरति ऋद्धि SC -COLOCALSO Jan Education a l For Private & Personal Use Only anelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy