________________
SCREE
सम्यक
॥२३॥
नाप्यनुमानेनाशनपराङ्मुखौ तौ वृपो ज्ञात्वा भक्तप्रत्याख्यानं कारिती, ताभ्यामपि शुभायतिभ्यां पध्यमिव तदङ्गी- स०टी० कृतम् , श्रेष्ठ्यपि परित्यक्तापरव्यापारः संसारासारतां प्रकटयनाराधनापुरस्सरं पञ्चपरमेष्ठिनमस्कारमहामन्त्रं तयोः श्रुतिपथपथिकतामनैषीत् , तावप्यमृतमिव तं निजकर्णपुटाभ्यां निपीय समाधिनाऽऽयुः परिपूर्य नागकुमारेषु देवत्वेनोपपद्येतां, अथ कम्बलशम्बलौ नागकुमारावधिज्ञानेन वेडायामारूढस्य भगवतः श्रीवर्द्धमानस्य मिथ्यादृष्टिना । सुदाढनागकुमारेण क्रियमाणं जीवितान्तोपद्रवं विज्ञाय जन्मकृत्यञ्च विमुच्य रयादाजग्मतुः, तयोस्त्वेकः सुदाढेन सार्द्ध युद्धं चकार, द्वितीयस्तु भगवदधिष्ठितां नावं पद्मिनीमिव करसम्पुटेनोद्धृत्य सरित्परतीरमनैषीत् , ततो महर्धि-18 कोऽपि सुदाढनागकुमारोऽत्यन्तासन्नच्यवनसमयगलवलस्ताभ्यां नूतनदेवाभ्यां निर्जितः शृगाल इव पलायांचकार, तावपि कम्बलशम्बलौ नागकुमारौ भगवतः श्रीमहावीरस्वामिन उपरि गन्धोदकपुष्पवृष्टिं विधाय भक्त्या तत्पादारविन्दद्वन्द्वमभिवन्द्य च धाराहतकदम्बपुष्पवद्रोमाञ्चिताङ्गो खस्थानमगच्छतां, तदनु जिनदासश्रेष्ठ्यपि तयोवृषभयोविपत्त्यनन्तरं विशिष्य शश्वदर्हदुक्तशास्त्रपरिशीलनेन कतकफलक्षोदेनेवात्मानं जलमिव निर्मलीकृत्यावसाने समाधि-15
परः सदारः सुरपुरमलंचकार । इति यथा जिनदास उपासकः, समकरोत् परमार्थसुसंस्तवम्। कुरुत तद्वदिमं यदि वः ४ स्पृहा, शिववधूपरिरम्भणकर्मणे ।१। परमार्थसंस्तवे जिनदासकथा।
RECECRECRECRRC
P-CCCCESCRACCष्ट
॥२३॥
Jain Education
t rional
For Privale & Personal Use Only
C
arjainelibrary.org