SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Ramayan तौ पशू अपि सत्सङ्गतिवशाजातचैतन्यौ दीयमानमपि तृणादिकं नाभुाताम्" यतः-सङ्गः सर्वात्मना त्याज्यः, सचेत्यक्तुं न शक्यते, । स सद्भिः सह कर्त्तव्यः, सन्तः सङ्गस्य भेषजम् ॥ १॥ ततः श्रेष्ठी तयोवृषभयोरीदृक् खरूपं वि निरूप्य कृपयैवेयन्तं कालं मया पालितौ सम्प्रति तु विशिष्टधावबोधात्साधम्मिको जाताविति सञ्चिन्त्य च तौ वृषौ सहोदराविव मनोहराहारेणापूपुषत् , उभयथापि वृषभपोषनिरतस्य तस्य यान्ति स्म वासराः, अथैकदा भिण्डीरगणयक्षयात्रोत्सवे प्रवृत्ते नागरिकलोकैरहमहमिकया वाहकेल्यां प्रारब्धायां कश्चिजिनदासस्य परमवयस्यस्तमनापृच्छयैकोदरजातवत्समानौ गिरिशृङ्गवत्तुङ्गपीवरस्कन्धावरिष्ठरत्नवत्सुस्निग्धमुग्धशृङ्गौ कन्दुकवद्वृत्ताङ्गौ चामरवल्लसत्पुच्छौ वायुवदधिकवेगौ पुण्डरीककमलबद्धवलौ कौतुकवशादादाय शकट्यामयोजयत् , ततः स गतकृपस्तच्छरीरसुकुमारतानभिज्ञोऽरुन्तुदतोदननोदनेन तुरगादप्यधिकतरं रयं तौ वृषौ कारयन् प्रतिज्ञापूर्वमपूर्वानपि पौरपरम्पराधुरीणान् विधुरयन् , सर्वत्र जयपताकामवाप्य पुनः श्रेष्ठीगृहे बद्ध्वा यथागतमगमत् , जिनदासोऽपि कृतजिनपूजः सत्पात्रनिवेशितवित्तो भोजितपरिजनस्तयोधुरन्धरयोः पोषाय हारिचारिकरः समाजगाम, तावप्याराप्रहारनिःसरद्रुधिरधाराखरण्टितशरीरौदीर्घनिःश्वासान् विमुञ्चन्तौ निःसहावुदश्र वीक्ष्य श्रेष्ठी सकष्टमाचष्ट हा!! केन पातकिना मामननुज्ञाप्यैतौ वृषावीगवस्थामवापितौ ? तदनु श्रेष्ठी सशोक इव तयोस्तापव्यापनिराकरणाय शर्करामिश्रक्षीरशिशिरकरम्भकादि वस्तु पुरस्तान्निवेशितवान् , तावप्यत्यन्तव्यथाविधुरितशरीरौ तस्मिन् दृक्पातमपि न चक्राते, अनशनकृतमती श्रेष्ठि Jan Educator Potional For Private & Personal Use Only Rejainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy