SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ केवलसंसारियाण तिगजोगो। चउजोगजुयं चउसुवि, गईसु मणुयाण पण जोगो ६॥ अल्पबहुत्वं तु परस्परापेक्षया सविशेषा प्रतिपत्तिर्यथा-सङ्ख्याता मनुष्यास्तेभ्योऽसङ्ख्यातगुणा नैरयिकाः तेभ्यः सविशेषा देवाः तेभ्योऽनन्तगुणास्तिर्यञ्च इति ८ । एतैः सप्तभिः सदादिभिः पदैर्बुद्धानां ज्ञातानामपि जीवादिपदार्थानां पुनः पुनः श्रवणमाकर्णनं चिन्तनं पर्यालोचनं संस्तवो भवतीति गाथार्थः ॥९॥ । अस्मिन् विषये जिनदासश्रावकदृष्टान्तः प्रतन्यते, तथाहि, इहैव जम्बद्वीपे द्वीपे निवासिजनजनितहर्षप्रकर्षे श्रीभारते वर्षे समस्ति समस्तवस्तुविस्तारमधुरा मथुरा नाम नगरी, यस्यां मनुष्यश्रुतिसौख्यकारिविरावभृद्धंसकभासमाना समुल्लसत्पीनपयोधरान्तःसस्त्रीराजिराभातिवहिर्वनीव । तस्यामनवरतसुगुरुवदननिर्यदमृतायमानविशुद्धसिद्धान्तदेशनाश्रवणसञ्जातजिनशासनदृढवासो जिनदासो नाम श्रावकः प्रतिवसति स्म, यस्य मानससरोवरमध्ये गुर्वपूर्वतरभक्तितरङ्गे सद्विचारचतुरः शुचिपक्षः खेलनं स्म तनुते जिनहंसः। तस्य निरन्तरदेवगुरुचरणपरिचरणसमुपार्जितागण्यपुण्यनिवासीभूता समासीत्साधुदासी नाम प्रेयसी, 'श्रीमजिनाज्ञासुदशासनाथे, पुण्यक्रियास्नेहभराभिरामे । यच्छीललीलायितदीप्रदीपे, पतङ्गपोतायितमाप मारः।१।' एकदा ताभ्यां सद्गुरुपादमूले सम्यक्त्वमूलानि द्वादश व्रतानि स्वीकुर्वद्भयां सावधभीरुतया सर्वथा चतुष्पदपरिग्रहपरिहाररूपोऽभिग्रहो जगृहे, तञ्च निरतीचारप्रतिपालयद्भ्यां ताभ्यां सुखेन समयोऽतिवाह्यते स्म, कदाचित्काचिदेका CRECORREAKA Jan Education Real For Private &Personal use Only D ainelibrary.org रा .
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy