________________
सम्य०
॥ २१ ॥
| लेश्यापेक्षया कृष्णनीलकापोतलेश्याखाद्यानि चत्वारि गुणस्थानानि, तेजःपद्मयोराद्यानि सप्त, शुक्लायामाद्यानि त्रयोदश, अलेश्यं चतुर्द्दशम् १० । भव्यापेक्षया भव्येषु चतुर्द्दशाऽपि गुणस्थानकानि, अभव्येष्वाद्यमेव । ११ सम्यक्त्वापेक्षया क्षायिकेऽविरतादीन्येकादश गुणस्थानानि, औपशामिके अष्टौ, क्षायोपशमिके चत्वारि, साखादनमिश्रयोः स्वं स्वम् १२ । संज्ञ्यपेक्षया संज्ञिषु चतुर्द्दशापि गुणस्थानानि, असंज्ञिष्वाद्ये द्वे १३ । आहारकापेक्षया आहारकेष्वाद्यानि त्रयोदश गुणस्थानकानि, अनाहारकेषु जीवेषु विग्रहगत्यापन्नाः केवलिसमुद्घातगत सयोगिकेवलिनो योगिकेवलिनश्च १४ । एवं गुणस्थानमार्गणास्थानसंयोगेन जीवानां सत्पदप्ररूपणा ज्ञेया १ ॥ अनयैव दिशा अजीवादिशेषपदाथानां प्ररूपणा सुमतिभिः खमत्याऽभ्यूला, ग्रन्थगौरवभयान्नेह प्रतन्यत, सङ्ख्या पुनर्जीवादितत्त्वानां प्रभेदगणना, यदुक्तम् — 'चउदस चउदस वायालीसा बासी हुन्ति बायाला । सत्तावन्नं वारस, चउनवभेया कमेणेसिं ॥ १ ॥ २ । क्षेत्रं तु वर्त्तमानकालविषयीकृतजीवाजीवादिनिवासः, तदेव त्रिकालगोचरं चतुर्द्दशरज्ज्यात्मकं श्रुतप्रणीतखरूपं जीवाजीवाधारक्षेत्रं, स्पर्शना ३ । अथ जीवाद्यपेक्षया सादिसान्तसाद्यनन्ताऽनाद्यनन्ताऽनादि| सान्तादिभेदात्कालचतुर्द्धा, यदुक्तमागमे - गइ सिद्धां भवियाया, अभविय पुग्गल अणागयद्धा य, तीयद्ध तिन्नि काया जीवाजीवट्टिई चउहा ॥ १ ॥ ४ ॥ अन्तरं तु जीवाजीवाद्युत्पत्तिविनाशविरहकालः ५ ॥ भावस्त्वादयिकौपशमिकक्षायिकक्षायोपशमिकपरिणामिकसांनिपातिकभेदात्पोढा जीवादिषु सम्भवन्ति, यदुक्तम् - दुगजोगो सिद्धाणं
Jain Education International
For Private & Personal Use Only
स० टी०
॥ २१ ॥
www.jainelibrary.org