SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ROCK** गइ-इन्दिए य काए, जोए वेए कसायनाणे य । संजमदसंणलेसा, भवसंमे सन्निआहारे ॥ १॥ इतिचतुर्दशमार्गणास्थानानि तैः सत्पदप्ररूपणा सामान्यविशेषाभ्यां द्विधा-सामान्येन जीवो मिथ्यादृष्टिः साखाद-है नादिमान्वेत्यादि, विशेषेण तु गत्याद्यपेक्षया निगद्यते, तथाहि-देवनरकगत्योराद्यानि चत्वारि गुणस्थानकानि, तिर्यग्गतौ पञ्च, मनुष्यगतौ चतुर्दशापि १ । इन्द्रियाद्यपेक्षया एकद्वित्रिचतुरिन्द्रियेष्वाद्यं, द्वितीयमपि गुणस्थानं, लपञ्चेन्द्रियेषु चतुर्दशापि २ । कायापेक्षया, पृथिव्यप्तेजोवायुवनस्पतिकायेष्वाद्यं, तेजोवायुवर्जमितरेषु द्वितीयमपि, त्रसेपु सर्वाणि ३। योगापेक्षया मनोवाकाययोगेषु त्रयोदश गुणस्थानानि, न चतुर्दशं, तस्य निरुद्धयोगत्वादयोगिमात्विम् ४ । वेदापेक्षया पुंस्त्रीनपुंसकवेदेवाद्यानि नव गुणस्थानकानि, अतः अग्रेतनान्यवेदकानि, ५ । कपायापे क्षया क्रोधमानमायासु नव गुणस्थानकानि, लोभे दश, ततोऽग्रेतनान्यकपायाणि ६ । ज्ञानापेक्षया मत्यज्ञानश्रुताज्ञानविभङ्गेयाये द्वे गुणस्थाने त्रीणि वा, मतिश्रुतावधिज्ञानेष्वविरतिसम्यग्दृष्टयादीनि क्षीणकपायान्तानि नव, मनःपर्यायज्ञाने प्रमत्तादीनि क्षीणकपायान्तानि सप्त, केवलज्ञाने प्रान्ते द्वे ७ । संयमापेक्षया सामायिकच्छेदोपस्थाप्ययोः । प्रमत्तादीनि चत्वारि, गुणस्थानानि, परिहारविशुद्धौ प्रमत्ताप्रमत्ते द्वे, सूक्ष्मसम्पराये सूक्ष्मसम्परायमेकं, यथाख्याते उपशान्तादीनि चत्वारि देशविरतौ देशविरतिस्थानमेकं, अविरतो मिथ्यादृष्टयादीनि चत्वारि ८ । दर्शनापेक्षया, चक्षुरचक्षुर्दर्शनयोराद्यानि द्वादश गुणस्थानकानि, अवधिदर्शनेविरतादीनि नव, केवलदर्शने प्रान्से द्वे ९।। ******** Bain Education a l For Privale & Personal Use Only dainelibrary.org *
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy