SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सम्य० स०टी० ॥२०॥ परमत्थसन्थवो खल्लु, सुमुणियपरमत्थजइजणनिसेवा । वावन्नकुदिट्ठीण य, वजणमिह चउहसदहणं ___ व्याख्या 'परमत्थत्ति, (त्थेत्यादि ) 'खलु' निश्चितं परमार्थस्य परमरहस्यस्य संस्तवः परिचय इत्येको भेदः. 'सुमुणिय'त्ति ( येत्यादि) सुज्ञातपरमार्थानां यतिजनानामहन्मुनीनां सेवनं पर्युपास्तिकरणमिति द्वितीयो भेदः,। लावावन्नत्ति (न्नेत्यादि ) व्यापन्नाश्च कुदृष्टयश्च व्यापन्नकुदृष्टयस्तेषां वर्जनं, कोऽर्थः ? परिच्युतसम्यक्त्वानां मिथ्याशा च परित्याग इति तृतीयचतुर्थी भेदौ । 'चः' समुच्चये 'इह' अत्र ग्रन्थे चतुष्प्रकारं श्रद्धानं भवतीति गाथार्थः ॥ ८॥ तस्यैव श्रद्धानस्य परमार्थसंस्तवरूपं प्रथमं भेदं विवृण्वन्नाहजीवाइपयत्थाणं, सन्तपयाईहिं सत्तहिं पएहिं। बुद्धाणवि पुण पुण सवणचिन्तणं सन्थवो होई ॥९॥ व्याख्या-'जीव'त्ति जीवन्ति प्राणान् धारयन्तीति जीवाः, सर्ववक्तव्यमूलत्वात्तेषांप्रथमोपादानमिति, आदिशब्दादजीवपुण्यपापाश्रवसंवरवन्धमोक्षपरिग्रहः, तेषां पदार्थानां तत्त्वानां परिज्ञानं, कथं स्यादित्याह, 'सन्तपयाईहिन्ति' सत्पदादिभिः सत्सङ्ख्याक्षेत्रस्पर्शकालान्तरभावाल्पवहुत्वभेदैः सप्तभिः पदैः, तेषां सत्पदादीनां प्ररूपणा चैषा,नाजीवाइपयत्थाणं, गुणठाणेसु पवट्टमाणाणम् । चउदसमग्गणट्ठाणपरूवणा सन्तपयमाई ॥ १ ॥ तथाहियद्यपि सच्छब्दः प्रशंसादिषु वर्तते तथाप्यत्रास्तित्ववाचक उपादीयते, अतः सन्ति जीवाद्याः पदार्था गुणस्थानकेषु चतुर्दशसु मिथ्यादृष्टयाद्ययोगिपर्यन्तेषु वर्तमानत्वात् , अत्रापि तेषां सत्त्वं मार्गणास्थानैरभिव्यज्यते । तानि चामूनि Jan Education internal For Private & Pasonal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy