________________
Jain Education
-x*x*
दोषेण सर्वतः । अतोऽस्य भावि कीनाशसरणं शरणं किल ॥ ३८९ ॥ इति तद्वाक्यमाकर्ण्यामूर्च्छत्पद्मावती शुचा । वनजः साहसं धृत्वा, मात्रिक माह पृच्छ भो ! ॥ ३९० ॥ सुतः केनाप्युपायेज, जीवत्येषो ऽथवा नहि ? तेनापि कन्यावत्रेण, पृष्टा देवीत्यवोचत ।। ३९१ ॥ शिशुरस्मान्महादोषान्मुच्यते यदि हि स्वयम् । वनसूनुः पद्रयक्षमर्चयेदन्यथा मृतिः ॥ ३९२ ॥ तच्छ्रुत्वा बनजोऽवादीत्सम्यक्त्वस्थैर्यमन्दरः । जीवान्तेऽपि न कुर्वेऽहमन्यदैवतपूजनम् ॥ ३९३ ॥ शरीरी त्रियमाणस्तु, पूर्ववद्धायुषः क्षयात् । रक्ष्यते नैव भूपालैर्न देवैर्न च दानवैः ॥ ३९४ ॥ असम्पूर्णायुरेषोऽपि, रोगदोपशतैरपि । वज्रपञ्जरमध्यस्थ, इव नो म्रियते क्वचित् ॥ ३९५ ॥ प्राणेभ्योऽप्यधिकस्यास्य, हितं स्यादथवाऽहितम् । तथापि जातु सम्यक्त्वमालिन्यं न करोम्यहम् ॥ ३९६ ॥ अर्हतः सुगुरूंश्चैष, सुक्त्वा साधमिकांस्तथा । नमयामि न मूर्द्धानमन्येषामिति निश्चयः ।। ३९७ ॥ एकस्मिंस्तु भवे पुत्रा भवन्ति सुखदा न वा । भवे भवे भवेत् सम्यग् - दृष्टिः श्रेयस्करी नृणाम् ॥ ३९८ ॥ अतस्त्वं मात्रिक श्रेष्ठ ! श्राग्विसर्जय मण्डलम् । यद्यस्य विपुलं वायुस्तदा प्राणिष्यति स्वयम् ॥ ३९९ ॥ इति तेनोदिते यावन् मात्रिको मण्डलं किल । विस्रष्टुमलगत्तावत्सा सुरी प्रकटाऽभवत् ॥ ४०० ॥ ऊचे च वनसूनो ? त्वं धन्योऽस्येतन्मया कृतम् । त्वत्सम्यक्त्वपरीक्षार्थी, निरुगेवास्ति ते सुतः || ४०१ ॥ इत्युक्त्वा सा तिरोभूता, पूर्णकुम्भोऽपि निर्गतः । प्रेयसीभिः समं भोगान्, भुआनः कालमयगात् ॥ ४०२ ॥ वनसूरपि सम्यक्त्वं, पाल्य गतदूषणम् । सम्पूर्णायुः शुभध्यानः, सप्रियस्त्रिदिवं
onal
For Private & Personal Use Only
w.jainelibrary.org