SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥ १७ ॥ व्यलोक्यत ॥ ३४५ ॥ ततो जजल्पतुर्विद्या-धर्यौ साश्वर्यमानसे । कञ्जकं केकिनं मुक्त्वा, चौरः किमकरोदिदम् ॥ ३४६ ॥ वेतालोऽप्यब्रवीद्युद्धा, यदर्थ क्लेशमा सदम् । प्राणप्रियः सखा सोऽयं, वहावह्नाय हाऽविशत् ॥ ३४७ ॥ आगच्छतश्चिताभ्यर्णे, प्रेक्ष्य वेतालखेचरान् । दूरीभूय स्थिता लोकाः किमेतदिति ? सम्भ्रमात् ॥ ३४८ ॥ चतुरङ्गचमूयुक्तो, योद्धुकामो नृपोऽपि हि । वैतालखेचरानीकाभिमुखं वेगतोऽचलत् ॥ ३४९ ॥ अथ विद्याधरीसैन्यं, तां चितां परितो भ्रमत् । अग्रहीत्कञ्जकं दारु-मयूरं च महीस्थितम् ॥ ३५० ॥ अस्मद्भियान्यहेतोर्वा, प्राविशत्तस्करश्चिताम् । इतीव यावत्तां द्रष्टुं लभे ते खेचरप्रिये ॥ ३५९ ॥ तावद्वनभुवं तत्र, प्रियापद्मावतीयुतम् । अक्षताङ्गं निरीक्ष्योभे, खेचर्याविदमूचतुः ॥ ३५२ ॥ अहो अहो प्रविष्टोऽपि यदेषोऽग्नौ सवलभः । खर्णासने स्थितो हंसयुग्मवद्राजतेऽम्बुजे ॥ ३५३ ॥ तयोरिति गिरः श्रुत्वा, कौतुकोत्तानमानसाः । वेतालः खेचरा राजा, खजनाश्च समीयरुः ॥ ३५४ ॥ अहो पद्मावतीशीलमाहात्म्यं यदियं चिता । प्रज्वलज्ज्वलनज्वाला, जालाप्यजनि शीतला ॥ ३५५ || इति बन्दिष्विवैतेषु जल्पत्सु वनसूस्ततः । निर्गत्य सप्रियः पृथ्वी-पतिं जोदकरोन्मुदा ॥ ३५६ ॥ राज्ञाऽप्याश्लिष्य स स्नेहात्पृष्टोऽथ वननन्दनः । सर्वे कञ्चुकवृत्तान्तं यथावत्प्रत्यपीपदत् ॥ ३५७ ॥ पितृभ्यां खजनैचायं परिरभ्याभ्यनन्द्यत । वत्से ! पुत्रवती भूया, इति पद्मावती तथा ॥ ३५८ ॥ ज्ञात्वा कञ्चुकवृत्तान्तमथ विद्याधरप्रिये । मुक्त्वा च तस्मिन्निर्वन्धमिति चेतसि दध्यतुः ॥ ३५९ ॥ दम्पत्योरनयोः प्रीतिरहो !! कापि परस्परम् । Jain Education International For Private & Personal Use Only स० टी० ॥ १७ ॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy