SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Jain Education कामिनी ॥ ३३० ॥ तन्मन्ये तव जीवेशा, भविष्यतितमामसौ । अतो व्रज रयात्तत्र ! पृष्ठरक्षोऽस्म्यहं ननु ॥ ३३१ ॥ बेतालवचसा तेन, वामाक्षिस्फुरणेन च । ज्ञातप्राणेश्वरीमृत्युस्ततो वनसुतोऽचलत् ॥ ३३२ ॥ अथ पद्मावती कान्ता, कान्तागमनवासरान् । प्रपूर्य नर्मदातीरे नृपमूचे कृताञ्जलिः ॥ ३३३ ॥ वारितापि स्ववर्गेण, नास्थां यान्ती चितां प्रति । कपिना शुद्धिमानाय्ये यचिरं स्थापिता त्वया ॥ ३३४ ॥ अवधौ परिपूर्णेऽपि, यन्नागान् मम वल्लभः । तद्वेयमङ्गलं तस्य, सत्यसन्धो यतोऽस्ति सः ॥ ३३५ ॥ अतो मामनुजानीहि चितालिङ्गनकर्मणि । इत्युक्त्वा सा महीपालं, मुत्कलाप्यागमद्गृहम् ॥ ३३६ ॥ ततः खोभयपक्षं सानुज्ञाप्याभ्यर्च्य देवताः । वितीर्य दानं दीनेभ्यो नुकूल्य सखीजनम् ॥ ३३७ ॥ अनुमोद्य कृतं पुण्यं, गर्हितं दुष्कृतं तथा । लोके क्रन्दति हा हेति, चचालाशु चितां प्रति ॥ ३३८ ॥ पश्यतां सर्वलोकानां स्मृत्वा पञ्चनमस्कृतिम् । सा खवग्र्गाशु (श्रुभिः सार्द्धमदाज्झम्पां चितानले ॥ ३३९ ॥ अथोद्यानसुतो वेगादागतो नर्मदातटे । धूमव्याप्तं नभो ऽपश्यचितां च ज्वलदग्निकाम् ॥ ३४० ॥ दः स्वजनांस्तत्र, वीक्ष्यासावित्यचिन्तयत् । वह्नौ प्रियाऽपतत् स्वभ्रे, मनोरथरथश्च मे ॥ ३४१ ॥ ततो मयूरादुत्तीर्यो - पांशु मुक्त्वा च कक्षुकम् । कान्ताचितासमीपस्थो वनसूरित्यभाषत ॥ ३४२ ॥ सतीव्रतधरा मेऽस्ति, यद्येषा प्राणवल्लभा । तदैतस्यां ममापि स्यादाशु श्रेयः परम्परा ॥ ३४३ ॥ इत्युदीर्य प्रियामृत्युपापव्ययकृते कृती । सोऽज्ञातः स्वजनैर्झम्पापातं वैश्वानरेऽकरोत् ॥ ३४४ ॥ अथानुगैर्युध्यमानैर्विद्याधरभटैर्मिथः । वेतालसुभटैश्चाऽपि तथास्थः स For Private & Personal Use Only jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy