SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ मक्त्वा कृत्वा च पूरक्षा, जेतुं यामो रिपोर्बलम् ॥ ३०१॥ तथैवासूत्र्य सर्वाभि-सारसारः स निर्ययो । ततः शिबिरयोजज्ञे, नामग्राहं महारणः ॥ ३०२ ॥ युध्यमानाः कपिभटा, दन्तादन्ति नखानखि । केपि पेतुर्महीपीठे, कुठारच्छिन्नवृक्षवत् ॥३०३ ॥ केचित्खवीर्यपेटाभिश्चपेटाभिः क्रुधोद्धराः । आहत्याहत्य वाणि, नीरदानि वितेनिरे ॥ ३०४ ॥ केचनापि शिलागोलैर्वर्षन्तो दुष्टमेघवत् । अन्योऽन्यस्य शरीराणि, चूर्णयांचक्रिरेतराम् ॥ ३०५॥ एवं समरसंरम्भ, तन्वन्तः कपयो मिथः । काकनाशं भृशं नेशुः, स्थैर्य हि स्यात् व तादृशाम् ? ॥ ३०६ ॥ अथोद्भटान्भटान् खान् खान् , नष्टानालोक्य तौ रुषा । अन्योन्यकालनीलास्यौ, चक्रतुर्दारुणं रणम् ॥ ३०७॥ निर्जितो नील-12 वक्रण, कालवक्रः कपीश्वरः । ननाश प्रतिकूले हि, विधौ कस्य भवेजयः? ॥३०८॥ इतश्चारामजन्माऽपि, जग्मिवांस्तत्र यत्र तैः । कपिभिः स्थापिता आसन्नभोगाः काष्ठकेकिनः॥ ३०९ ॥ तेष्वेकं केकिनं वेगादारुह्याऽऽरामनन्दनः । कीलिकामर्मवित् प्राप, वैताढ्ये मङ्गलावतीम् ॥ ३१०॥ कुतोऽपि विद्युन्माल्योकस्तुर्यावनि गवाक्षके । खर्णतल्पस्थितं पुष्प-कञ्चकं ह्यवगत्य सः ॥ ३११ ॥ आदाय च ततो राज-कुलाध्यक्षमदोऽवदत् । हहो वनभुवा स्वीय, एवायं नीयतेऽधुना ॥ ३१२ ॥ युग्मम् । एवमुच्चैःवरं वारं वारं जल्पन् पुराबहिः । विनिर्गत्य स वानेयः, प्रतस्थे खपुरं प्रति ॥ ३१३ ॥ कश्चित्पुमान् गृहेऽभ्येत्य, गृहीत्वा पुष्पकचकम् । मयूरवाहनारूढो, हहा याति विहायसि ॥ ३१४ ॥ इत्याकर्ण्य तडिन्मालिप्रिये सुप्रियकचके । सोरस्ताडं निजान् भृत्यानूचतुर्धावताशु भोः! Hann Educat an interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy